2023-10-27 14:52:09 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४४५
 
न्यायकोशः ।
 
अर्यत्र नृत्यते । वशीकरणविद्याभं तल्लास्यं यौवतं मतम् ॥ गेष्ठ
 

वाद्यं वाद्यादुत्तिष्ठते
(संगीतदामो० ) ।
 
लयः । लयतालसमारब्धं ततो नृत्यं प्रवर्तते ॥ इति
 

(संगीतदामो० ) ।
 
<
नृपः>
यश्चैत्रशुक्लप्रतिपद्दिनवारो नृपो हि सः ( पु० चि० पृ० ५६ ) ।

 
<
नेजक:- >
वस्त्रस्य धावकः ( मिताक्षरा २।२३८ ) ।

 
<
नैगमः - >
ये वेदस्याप्तप्रणीतत्वेन प्रामाण्य मिच्छन्ति पाशुपतादयस्ते ( मिता-
www.
 

क्षरा २।१९२ ) ।
 

 
<
नैमित्तिकत्वम् - >
१ निमित्तजन्यत्वम् । यथा द्वयोनैमित्तिको द्रवः ( भा०

प० श्लो० २८) इत्यादौ सुवर्णलाक्षादीनां द्रवत्वस्य तेजः संयोगरूप-

निमित्तजन्यत्वम् ( मु० १ ) । २ धर्मज्ञास्तु अनियत निमित्तकत्वम् ।

यथा पुत्रजन्माश्रित्य विहितस्य जातेष्ट्यादेः ग्रहणादिनिमित्तमाश्रित्य

विहितस्य स्नानादेश्च नैमित्तिकत्वम् इत्याहुः । ३ स्मार्तास्तु निमित्त-

निश्चयवदधिकारिकर्तव्यत्वम् । यथा यत्तु पापोपशान्त्यै च

करे । नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ (गरुडपु० ) इत्यादौ
 

इत्याहु: ( वाच० ) ।
 
तु
 

 
<
नैमित्तिकी >
संज्ञा- ( रूढनाम ) । यन्नाम जात्यवच्छिन्नसंकेतवत् सा

नैमित्तिकी संज्ञा । यथा गोचैत्रादिः । सा हि गौर्गच्छतीत्यादौ गोत्वचैत्र-

इत्याकारकग्रहात् गोत्वादिजातिमात्रम् । गामानयेत्यादौ गोत्वादिना गवा-

देरन्वयानुपपत्तेः । एकशक्तत्वग्रहस्यान्यानुभावकत्वेतिप्रसङ्गात् इति ( श०

म० श्लो० १८ पृ० १७) । ये तु जात्यवच्छिन्नसंकेतवतामपि चैत्रादि-

पदानां पारिभाषिकत्वमाहुः ते जात्यवच्छिन्नशक्तिमन्नाम नैमित्तिकम् यथा
 

गोगवयादि
 
इत्याहु: ( श० प्र० श्लो० २२ पृ० २६) ।
 
नये
 

 
<
नेपायिक:- >
षोडशपदार्थानुसारिन्यायज्ञः । यथा नैयाथिकानांतु

अणुकादावपीष्यते ( भा० प० लो० १०७) इत्यादौ गौतमर्ष्यादि-
ww
 
-