न्यायकोशः /493
This page has been fully proofread once and needs a second look.
४३९
•
यातिरिक्ता तुरीया विलक्षणविषयता स्वीक्रियते इति (नील०१पृ०१७) ।
<निलयनम्
किंचित्कर्तृकदर्शनाभावप्रयोजकदेशविशेषस्थितिः । यथा मातु-
•
निलीयते कृष्ण इत्यादौ धात्वर्थो निलयनम् । धात्वर्थदर्शनकर्ता-
त्रापादानम् । तत्पूर्वक निवृत्तिर्धातोरर्थः । तत्र मातुरपादानत्वेनान्वय इति
भाष्यमतम् । दर्शने मातृकर्तृकत्वं प्रत्यासत्तिगम्यम् ( ल० म० सुब०
का० ५ पृ० १०९) । अत्र अन्तर्धी येनादर्शनमिच्छति (पा०
सू० १।४।२८ ) इत्यनेन मातुरपादानसंज्ञा । सूत्रार्थस्तु यत्कर्तृक
दर्शनस्याभावमात्मनः माता मां न पश्यतु इति इच्छति ( कृष्णः )
तस्यापादानसंज्ञा इति ।
<निवर्तनम
विंशतिवेशपरिमिता भूमिः । वंशस्तु दशहस्तपरिमितः ।
<निवारणम्
वारणम् ।
<निवास:
यत्र देशे स्वयं वसति स देश: । अभिजनस्तु यत्र पूर्वेरुषित
स देश इति विशेषः ( सि० कौ० तद्धि० पृ० १३८ ) ।
<निविष्टम्
मृत्या प्राप्तम् ।
1190
<निवृत्तिः
१ [क] जिहासाप्रयुक्तस्य दुःखसाधन परिवर्जनम् (वात्स्या
प्रस्तावना ० १ १ १ । १) । ख ] द्वेषजन्यो गुणः (सि० च० गु०
१० ३५ ) । [ग] द्वेषजनितः प्रयत्नविशेष: (वै० उ० ३११/१९) ।
लक्षणं च निवृत्तित्वमेव । तच्च द्वेषजन्यतावच्छेदकतया सिद्धो जाति-
द्विष्टसाधनताज्ञानं च कारणम् ( भा०प० ला० १५२,
गु० ) । अत्रेदं बोध्यम् । निवृत्ति प्रति फलगतद्वेषो
इत्यन्वय-
(मु०
PE
J०
गु० पृ० २३१) । अत्रायं विवेकः ।
दुःखसाधन विषयक निवृत्ति प्रति द्विष्टसाधनताज्ञानं कारणम् । दुःख-
•
निवृत्ति प्रति तु दुःखद्वेष एव कारणम् इति । [घ ] उत्कटद्वेषजन्यो
यज्ञविशेषः (वै० वि० ३।२।१९ ) । [ङ ] द्विष्टसाधनताज्ञानजन्यो
TOA