This page has not been fully proofread.

न्यायकोशः ।
 
४३९
 
निर्विकल्पकेपि विषयतापेक्षितेति प्रकारता विशेष्यता संसर्गता एतत्र-
• यातिरिक्ता तुरीया विलक्षणविषयता स्वीक्रियते इति (नील०१पृ०१७) ।
निलयनम् – किंचित्कर्तृकदर्शनाभावप्रयोजकदेशविशेषस्थितिः । यथा मातु-
• निलीयते कृष्ण इत्यादौ धात्वर्थो निलयनम् । धात्वर्थदर्शनकर्ता-
त्रापादानम् । तत्पूर्वक निवृत्तिर्धातोरर्थः । तत्र मातुरपादानत्वेनान्वय इति
भाष्यमतम् । दर्शने मातृकर्तृकत्वं प्रत्यासत्तिगम्यम् ( ल० म० सुब०
का० ५ पृ० १०९) । अत्र अन्तर्धी येनादर्शनमिच्छति (पा०
सू० १।४।२८ ) इत्यनेन मातुरपादानसंज्ञा । सूत्रार्थस्तु यत्कर्तृक
दर्शनस्याभावमात्मनः माता मां न पश्यतु इति इच्छति ( कृष्णः )
 
तस्यापादानसंज्ञा इति ।
 
निवर्तनम - विंशतिवेशपरिमिता भूमिः । वंशस्तु दशहस्तपरिमितः ।
निवारणम्-वारणम् ।
 
निवास: – यत्र देशे स्वयं वसति स देश: । अभिजनस्तु यत्र पूर्वेरुषित
स देश इति विशेषः ( सि० कौ० तद्धि० पृ० १३८ ) ।
निविष्टम् - मृत्या प्राप्तम् ।
 
1190
 
निवृत्तिः–१ [क] जिहासाप्रयुक्तस्य दुःखसाधन परिवर्जनम् (वात्स्या
प्रस्तावना ० १ १ १ । १) । ख ] द्वेषजन्यो गुणः (सि० च० गु०
१० ३५ ) । [ग] द्वेषजनितः प्रयत्नविशेष: (वै० उ० ३११/१९) ।
लक्षणं च निवृत्तित्वमेव । तच्च द्वेषजन्यतावच्छेदकतया सिद्धो जाति-
द्विष्टसाधनताज्ञानं च कारणम् ( भा०प० ला० १५२,
गु० ) । अत्रेदं बोध्यम् । निवृत्ति प्रति फलगतद्वेषो
 
इत्यन्वय-
व्यतिरेकाभ्यामवधार्यते
 
(मु०
 
PE
 
J० गु० पृ० २३१) । अत्रायं विवेकः ।
 
दुःखसाधन विषयक निवृत्ति प्रति द्विष्टसाधनताज्ञानं कारणम् । दुःख-
• निवृत्ति प्रति तु दुःखद्वेष एव कारणम् इति । [घ ] उत्कटद्वेषजन्यो
यज्ञविशेषः (वै० वि० ३।२।१९ ) । [ङ ] द्विष्टसाधनताज्ञानजन्यो
 
TOA