2023-10-27 14:06:39 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४२५
 
न्यायकोशः ।
 
वार्तिके निमित्तं फलम् इत्याहुः (सि० कौ० ) । ५ शरव्यम् इति
 

काव्यज्ञा आहुः ( वाच ० ) ।
 
-
 

 
<
निमित्तत्वम् -.
१ [ क ] क्रियाजनिका या विनियोज्यत्वेनेच्छा तद्विषय-

त्वम् । यथा चर्मणि द्वीपिनं हन्तीत्यादौ चर्मादीनां निमित्तत्वम् ( गदा ०

व्यु० कार० ७ पृ० ११६) । अत्र विनियोज्यत्वेनेच्छा च इदं चर्म

हननेन मम प्राप्यताम् इति प्राप्यत्व प्रकारकेच्छा । तथा च चर्मणि

द्वीपिनं हन्तीत्यादौ हननादिक्रियाजनिका या विनियोज्यत्वेनेच्छा तद्वि-

यत्वं चर्मादौ निमित्तत्वम् इति विज्ञेयम् । समुदितश्लोकस्तु चर्मणि

दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीनि

पुष्कलको हतः ॥ इति ( सि० कौ० ) । सीमा अण्डकोशः । पुष्क-

लको गन्धमृगः । अत्र निमित्तात्कर्मयोगे (वार्तिकम् ) इत्यनेन सप्तमी

यत्किंचित्कर्मप्रकारकबोधजनकधातुयोगे प्रयुज्यते । तदर्थश्च -

रूपकर्मयोगे निमित्ताञ्चर्मादिरूपात्सप्तमी । निमित्तं हि फलम् । योगस्तु

निमित्तत्त्वं बोधयति । तथा च सप्तम्यर्थः स्वविषयकतादृशेच्छाधीनत्वम् ।

संयोगः समवायो वेति । इयं सप्तमी प्रकृत्यर्थचर्मादेर्हननादिक्रिया-

तस्य क्रियायामन्वयः । तदेकदेश विषयितायां निरूपकत्वेन प्रकृत्यर्थस्या-

न्वयः (ग० व्यु० का० ७ पृ० ११६ ) ( का० व्या० पृ० ११ ) ।

स्वपदार्थश्चर्म । एवं च चर्मादिविषयकेच्छाधीना या व्याघ्रकर्मिका हनन-

क्रिया तत्कर्ता इति वाक्यार्थबोधः । [ख फलत्वेनेच्छाविषयत्वम् ।

यथा चर्मणि द्वीपिनं हन्तीत्यादौ सप्तम्यर्थः । अत्रायं विशेषो ज्ञेयः । चर्मा-

तथा च चर्मप्रकारकेच्छा प्रयोज्यद्वीपिहननानुकूलकृतिमान् इति बोध:

उद्देश्यत्वं वा निमित्तत्वम् । यथा निमित्तात्कर्मयोगे इत्यादौ इत्याहुः ।

इति ( का० व्या० पृ० ११ ) । ग] शाब्दिकास्तु फलत्वम्

२ फलत्वेनेच्छा । यथा मशकनिवृत्तौ धूमं करोतीत्यादौ सप्तम्यर्थः ।

संबन्धेन करोतीत्यर्थेन्वयः । तथा च मशकनिवृत्तीच्छा प्रयोज्यधूमकरणा-

अन मशकनिवृत्तिः फलम् । सप्तम्यर्थस्य मशकनिवृत्तीच्छायाः प्रयोज्यत्व-

श्रयः इति बोधः (का० व्या० पृ० ११ ) ।
 

५४ न्या० को