This page has not been fully proofread.

४२३
 
न्यायकोशः ।
 
३ परिगणितं द्रव्यम् । यथा भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा
( याज्ञ० अ० २ श्लो० १२४ ) इत्यादौ इति व्यवहारज्ञा आहुः ।
• अत्र मिताक्षरा निबन्ध: एकस्य पर्णभारकस्येयन्ति पर्णानि तथा एकस्य
• क्रमुकफलभारकस्येयन्ति ऋमुकफलानि इत्याधुक्तलक्षणः ( याज्ञ० मि० २
श्लो० १२४ ) इति । ४ मूत्ररोधरूपो रोगविशेषः इति भिषजः ।
 
५ बन्धनम् ६ ग्रन्थः ग्रन्थविशेषश्च ।
 
निबन्धनम् -१ [क प्रयुक्तम् । यथा वातादिनिबन्धनं दुःखमित्यादौ ।
[ख] जन्यम् । २ हेतुभूतम् । अत्रार्थे व्युत्पत्तिद्रष्टव्या निबध्यतेनेना
बा इति । ३ वीणायास्तन्त्रीनिबन्धनमूर्ध्वभागः इति गायका आहुः
 
( वाच० ) ।
 
निमन्त्रणम् – आवश्यके कर्मणि श्राद्धभोजनादौ प्रवर्तकं वाक्यम् । यथो
• निमन्त्रयेत पूर्वेधुर्ब्राह्मणानात्मवाञ्छुचिः ( याज्ञ० ११२२५ ) इति
ब्राह्मणप्रतिवेश्यानामेतदेवानिमन्त्रणे ( याज्ञ० २/२६३ ) इति ।
च । तच्च निमन्त्रणम् भवतात्र भोक्तव्यम् इत्यादि वाक्यम् ( श०
१०० टी० पृ० १५५ ) । अत्रोच्यते यस्याकरणे
 
प्र०
 
प्रत्यवायस्तत् निमन्त्रणम् इति । एतच्च नित्यम् । अत्र नित्यत्वं च
●णार्थ दूतांश्च प्रेषयामास शीघ्रगान् ( भार० व० अ० २२५)
निमन्त्रितत्वम् – स्वकर्तव्यत्वप्रकारकधीजनकमप्रत्याख्येयं यद्वाक्यम् तत्प्रति-
पाद्यत्वम् । यथा श्राद्धे भुञ्जीत भवान् इह भुञ्जीथास्त्वम् इत्यादौ श्राद्धे
स्वपदं निरुक्त प्रतिपाद्यत्वाभिमतभवदादिपरम् । अप्रत्याख्येयत्वं च प्रत्यवाय-
भोजनाय निमन्त्रितो भवान् इत्यनुभवान्निमन्त्रितत्वं लिडर्थः । अत्र
जनक प्रत्याख्यानकत्वम् । तादृशधीजनकवाक्यं च भवतात्र भोक्तव्यम्
इत्यादिकं निमन्त्रणरूपम् । तत्प्रतिपाद्यो भवदादिः इति ज्ञेयम् । श्राद्ध-
सुपक्रम्य अनिन्दितेनामन्त्रितो नापगच्छेत् इति श्रुतेः सवेन तत्प्रत्या-