This page has not been fully proofread.

न्यायकोशः ।
 
• अपदेश: कथनम् । प्रतिज्ञायाः प्रतिज्ञार्थस्य साध्यविशिष्टपक्षस्य वचनम्
इति ( गौ० वृ० ११ १२ १३९ ) । साधर्म्मोक्ते वैधर्म्याक्ते वा यथोदाहरण-
सुपहिय तस्मात्पत्तिधर्मकत्वादनित्यः शब्दः इति निगमनम् ।
निगम्यतेनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्र इति निगमनम् ।
निगम्यन्ते समर्थ्यन्ते संबध्यन्ते । तत्र साधयक्ते तावद्धेतौ वाक्यम्
अनित्यः शब्दः इति प्रतिज्ञा । उत्पत्तिधर्मकत्वात् इति हेतुः । उत्पत्तिधर्मकं
स्थाल्यादि द्रव्यमनित्यं दृष्टम् इत्युदाहरणम् । तथा चोत्पत्तिधर्मकः शब्दः
इत्युपनयः । तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः इति निगमनम् ।
वैधयक्तेपि अनित्यः शब्दः उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकमात्मादि
द्रव्यं नित्यं दृष्टम् । न च तथा अनुत्पत्तिधर्मकः शब्दः । तस्मादुत्पत्तिधमे-
कत्वादनित्यः शब्दः इति । सर्वेषामेकार्थप्रतिपत्तौ सामर्थ्य प्रदर्शनं निग-
कथन पूर्वकसाध्य विशिष्ट पक्षप्रदर्शकः व्याप्तपक्षधर्म हेतुज्ञाप्यसाध्यविशिष्टपक्ष-
मनम् इति ( वात्स्या ० ११ १२ १३९ ) । [ख] व्याप्तिविशिष्टपक्षधर्महेतु-
[ग] अनुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञान कारणव्याप्तिपक्ष-
बोधकः तादृशसाध्यबोधको वा न्यायावयवः ( गो० वृ० १ / १२ / ३९) ।
[घ ] पक्षे साध्योपसंहारः ( त०] भा० पृ० ४३ ) । [ङ ] हेतु
ताधीप्रयुक्तसाध्यधीजनकं वाक्यम् ( चि० अव० २ पृ० ८२ ) ।
साध्यवत्तया पक्षप्रतिपादकं वचनम् (त० दी० २ पृ० २२ ) ।
 
हेतुज्ञानज्ञाप्यत्वविशिष्टसाध्यवद्विषयकबोधजनकवाक्यमित्यर्थः (नील० २
पृ० २२ ) [च ] पक्षे साध्यस्याबाधितत्वप्रतिपादकं वचनम् (सि०
 
च० २ १० २५) ।
 
छ ] अबाधितत्वासव्प्रतिपक्षितत्वतात्पर्यकं
 
वाक्यम् ( त० कौ० २ पृ० १३ ) । [ज ] लिङ्गसंबन्धप्रयुक्त-
• निश्चित साध्यवत्ववचनम् । यथा पर्वतपक्षकवहिसाध्यकधूम
• पर्वतो वह्निमान् धूमादित्यादौ तस्मादग्निमानिति तस्मात्तथेति वा वाक्यं
निगमनम् ( त० भा० पृ० ४३ ) ( त० कौ० २ पृ० १३ )
( त० सं० ) । अत्र व्याप्तिपक्षधर्मता विशिष्टधूमस्त पदार्थः । ज्ञान-
ज्ञाप्यत्वं पञ्चम्यर्थः । तथा च व्याप्तिपक्षधर्मता विशिष्टधूमज्ञानज्ञाप्यवहि-
त इति बोधः (वाक्य० २ पृ० १५ ) । [झ ] केचित
 
मान्पर्वत