This page has not been fully proofread.

न्यायकोशः ।
 
४१३
 
शांकरमतानुयायिनः । आनन्दमयपरमात्मनि जीवात्मलयो मुक्तिः इति
त्रिदण्डिनः । तत्र लयश्च लिङ्गशरीरापगमः । लिङ्गशरीरं च एकादशे-
न्द्रियाणि पञ्च महाभूतानि सूक्ष्ममात्रयावस्थितानि जीवात्मसुखदुःखा-
•वच्छेदकानि ( कि० व० पृ० ९ ) । एकादशेन्द्रिय पञ्चभूतरूपस्य लिङ्ग-
शरीरस्य जीवात्मन्यपगमो विश्लेषः । स एव परे ब्रह्मणि जीवस्य ल
• इत्युच्यते ( न्या० सि० दी० पृ० २६ ) । जीवस्य लिङ्गशरीरापगमो
मोक्षः इति भास्करीयाः । सर्वकर्तृत्वमेकं विहाय वासुदेवस्य सर्वज्ञत्वा-
दीनां कल्याणगुणानामाप्तिमत्त्वे सति भगवद्याथात्म्यानुभवो मोक्षः इति
•विशिष्टाद्वैतवादिनो रामानुजीयाः । जगत्कर्तृत्वलक्ष्मीपतित्वश्रीवत्सवर्ज
● श्रुतिः आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम् इति ( म०प्र० ४ ) ।
भगवज्ज्ञानायत्त निर्दुःखपूर्णसुखं मोक्षः इति द्वैतवादिनो माध्वाः । अत्र
सच मोक्षस्तन्मते सारूप्यसालोक्यसामीप्यसायुज्यभेदाच्चतुर्विधः ।
द्विभुजकृष्णेन सह स्वांशभूतानां जीवानां गोलो लीला
शुद्धाद्वैतवादिनो वल्लभीयाः । पारमैश्वर्यप्राप्तिः इति पाशुपतशास्त्रज्ञा
नकुलीशाचार्यादयो माहेश्वराः । चन्द्रचूडवपुषः सतः पार्वत्यालिङ्गनम्
इति कापालिकाः । पूर्णात्मतालाभः इति प्रत्यभिज्ञावादिनोभिनवगुप्ता-
चार्या: । पारदरसपानेन देहस्थैर्ये जीवन्मुक्तिरेव मोक्षः इति रसेश्वर-
गौतमीया नैयायिकाः । आत्यन्तिकदुरितनिवृत्तिः इति न्यायैक-
वादिनो गोविन्दभगवत्पादाचार्यादयः । आत्यंन्तिकी दुःखनिवृत्तिः इति
(दुःखानुत्पाद: ) इति कणादादयो वैशेषिकाः । स्वर्गादिः इति मीमांसकाः ।
तत्र दुःखसाधनशरीरनाशे नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः इति
इति भट्टाः । आत्यन्तिकदुःखप्रागभावपरिपालनं मोक्षः इति प्राभाकराः ।
परा पश्यन्ती मध्यमा वैखरी इति वाणीचतुष्टये प्रथमायाः पराख्
ब्रह्मरूपाया वाण्या दर्शनम् इति पाणिनीयाः । प्रकृत्युपरमे ( प्रकृति-
तद्विारोपधानाद्विलये ) पुरुषस्य स्वरूपेणावस्थानम्
• आत्यन्तिकदुः खत्रयविगमो वा मुक्तिः इति सांख्याः ।
 
भट्टसर्वज्ञादयस्तौ तातिकाः । तत्रापि नित्यसुखसाक्षात्कारः
 
बौदासीन्यम्
 
-
 
अहंकारनिवृत्ता