2023-10-27 13:52:01 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४११
 
[छ ] एकविंशतिभेदभिन्नस्य दुःखस्यात्यन्तिकी निवृत्तिः ( त० मा ०

प्रमेय० पृ० ४१ ) । एकविंशतिभेदास्तु शरीरम् षडिन्द्रियाणि षडिषयाः

षडधानि प्रत्यक्षज्ञानानि सुखं दुःखं चेति । शरीरादीनां दुःखसाधनत्वा-

दुःखत्वम् । सुखस्य च दुःखसंबन्धाद्दुःखत्वम् । अत्र वार्तिककारा

आहुः । श्रेयः पुनः सुखम् अहितनिवृत्तिश्च । तच्छेयो भिद्यमानं द्वेधा

व्यवतिष्ठते दृष्टादृष्टभेदेन । दृष्टं सुखम् । अदृष्टमहित निवृत्तिः । अहित-

निवृत्तिरप्यात्यन्तिकी अनात्यन्तिकी च । अनात्यन्तिकी कण्टकादे-

दुःखसाधनस्य परिहारेण । आत्यन्तिकी पुनरेकविंशतिभेदभिन्नदुःख-

हान्या । तस्य हानिर्धर्माधर्मसाधनपरित्यागेन । अनुत्पन्नयोर्धर्माधर्मयोरनु

त्पादेन उत्पन्नयोश्चोपभोगाप्रक्षयेण इति ( न्या० वा० पृ० २)

( त०] मा० प्रमेय० पृ० ४१ ) । [ज आत्यन्तिको दुःखाभावः

( न्या० वा० पृ० ४ ) । झ अहित निवृत्तिरात्यन्तिकी (न्या

क० पृ० ४ ) । तस्याः सद्भावे प्रमाणम् दुःखसंततिर्धर्मिण्यत्यन्तमुच्छि

द्यते संततित्वाद्दीपसंततिवत् इत्यनुमानम् इति तार्किका आहुः (न्या

क० पृ० ४ ) [ञ नित्यनिरतिशयसुखाभिव्यक्तिः इति दीधिति-

कृदाह ( ल० म० ) । [ट चरमदुःखध्वंसः ( त० दी० ) । यथा

रुद्रादियोग्यजीवानां मोक्षः । द्रव्यगुणकर्मसामान्यविशेषसमवायानां

तत्त्वज्ञानान्निः श्रेय साधिगमः ( गौ० १ । १ । १) इत्यादौ हिरण्यग

पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानं निःश्रेयसहेतुः ( प्रशस्त ० १ १

पृ० ५) । अत्र पदार्थतत्त्वज्ञानस्यात्मतत्त्वज्ञानद्वारा निःश्रेयसं प्रति

साधनस्वमुच्यते ( त० कौ० पृ० २१ ) । अत्र विप्रतिपत्तिः ।
 

कर्मज्ञानयोस्तुल्यवत्समुच्चयेनापवर्गकारणत्वमित्येके । तत्त्वज्ञानद्वारा क-

र्मणां तत्र कारणध्वम् । तथा च न तुल्यवत्समुच्चय इत्याचार्याः । तत्र

समुच्चय प्रतिपादिका श्रुतिः विद्यां चाविद्यां (कर्म) च यस्तद्वेदोभयं

आचार्य तु श्रुतिः तमेवं विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेय-

सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ( ईशा० ) इति ।

नाय इति ( न्या० सि० दी० पृ० २४) । तदिदं तत्त्वज्ञानं निःश्रेय-

साधिगमश्च यथाविद्यं वेदितव्यमिति । सर्वासु विद्यासु चतसृषु तत्त्व-
i