This page has not been fully proofread.

न्यायकोशः ।
 
४०३
 
नमः शब्दस्तु तदर्थद्योतकः । तेन नारायणं नमस्कृत्येत्यादौ द्वितीया ।
उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति न्यायात् । नमसो वाचकत्वे
नमस्कृत्य ब्राह्मणेभ्यः इत्येवं नमः शब्द प्रयोगे चतुर्थी स्यात् । नमः स्वस्ति-
स्वाहास्वधालंवषड्योगाच्च ( पा० सू० २/३ । १६) इत्यत्र त्यागार्थक-
नमनार्थकयोरुभयोर्ग्रहणम् ( शब्देन्दु ० ) ( ल० म० कार० ४
पृ० १०५ - १०६) । [ग] अपकृष्टत्वबोधनानुकूलो व्यापारः ।
यथा हरये नम इत्यादौ । अत्रापकर्षः प्रयोक्तरूपविशेषनिष्ठो नमस्कार्या-
वधिक एव प्रतीयते । व्यापारश्च प्रयोक्तूनिष्टः । स च व्यापारः कर-
शिरःसंयोगादिः ईदृशशब्दप्रयोगश्च । चतुर्थ्यर्थ उद्देश्यत्वम् । एवं च
हर्युद्देश्यक उक्तव्यापारः इति बोध: ( ल० म० का० ४ पृ० १०५ )।
[ घ ] अयं मत्त उत्कृष्टः अहमस्मादपकृष्टः इति ज्ञानविशेषः इति परे
वदन्ति ( त० प्र० १ पृ० ३ ) ( म० वा० पृ० १० ) । नमस्कार-
त्रिविधः । कायिकः वाचिकः मानसिकश्च (मू० म० १ पृ० १०३) ।
कायिकादिलक्षणानि च योगिनी० गन्धर्वतन्त्रे उक्तानि । यथा जानु-
भ्यामवनीं गत्वा संस्पृश्य शिरसा क्षितिम् । क्रियते यो नमस्कारः
प्रोच्यते कायिकस्तु सः ॥ या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः ।
क्रियते भक्तियुक्तेन वाचिकस्तूत्तमः स्मृतः ॥ इष्टमध्यानिष्टगतैर्मनो-
भिस्त्रिविधं भवेत्। नमनं मानसं प्रोक्तमुत्तमाधममध्यमम् ॥ इत्यादि
( गन्धर्वतन्त्र ० ) ( वाच० ) । नमस्कारः प्रकारान्तरेण द्विविधः ।
क्वचित् ऐहिक: कचित् कारीर्यादौ आमुष्मिकः ( न्या० दी०
पृ० ४) ।
 
नय:- -१ मतम् ।
यथा न्यायनयः मीमांसकनयः इत्यादौ । २ नीति-
शास्त्रम् ( मल्लि० टी० २।३ ) । यथा विषमोपि विगाह्यते नयः कृत-
तीर्थः पयसामिवाशयः ( किरा० स० २ श्लो० ३) इत्यादौ इति
नीतिशास्त्रज्ञा वदन्ति ।
 
नयनम् - [क] प्रापणम् । तच्चोत्तरदेशसंयोगावच्छिन्नक्रियानुकूलव्यापारः ।
यथा अजां ग्रामं नयति ग्रामं भारं वहतीत्यादौ नीयते अजा ग्रामम्