2023-10-27 13:42:07 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४०२
 
न्यायकोशः ।
 
पृ० १२६)। २ नमस्कारः । यथा हरये नम इत्यादौ ( ल० म०

का० ४ पृ० १०५ ) ( ग० व्यु० का० ४ पृ० ९९ ) । ३ अन्तम् ।

४ वज्रम् । ५ यज्ञः । यथा यज्ञो वै नमः (श्रुतिः) इत्यादौ (वाच०) ।

 
<
नमस्कारः>
[ क ] यमुद्दिश्य
यस्य स्वापकर्षबोधनानुकूल व्यापार-

 

विशेषः
तस्य स नमस्कारः ( चि० मङ्ग० १ पृ० १०३ ) ( म०

प्र० २ ) । स्वापकर्षबोधानुकूल: विलक्षणः स्वीयव्यापारः इति परमार्थः ।

अत्र स्वमुच्चारयिता ( ग० व्यु० कार० ४ पृ० १०१ ) ( राम० ) ।

शिष्टानाम् इत्यादौ
यथा देवतास्तुतिनमस्कारादिषु मङ्गलव्यवहारः

इत्यादौ
 
( मू० म० मङ्ग० १ पृ० १०१ ) । यथा वा हरये नमः

नमस्कारः । अत्र नमःस्वस्तिस्वाहा स्वधालंवषड्योगाच्च ( पा० सु०

(२।३।१६ ) इत्यनेन चतुर्थी ज्ञेया ( ल० म० सुब० कार० ४

पृ० १०५ ) । नमस्कारत्वं च स्वापकर्षबोध जनकतावच्छेद कजाति-

मत्त्वम् ( मू० म० १ पृ० १०४ ) । अथवा मानसत्वव्याप्यजाति-

विशेषः ( म० वा० पृ० १० ) । ज्ञानविशेषो वा । स च विशेषो

व्यवहारसाक्षिको जातिभेद एव । कायिकाद्यन्यतमत्वं वा ( न्या०

दी० पृ० ३ ) । नमस्कारभेदाश्च कालीपुराणे उक्ताः । यथा त्रिकोणमथ

षट्कोणमर्धचन्द्रं प्रदक्षिणम् । दण्डमष्टाङ्गमुग्रं च सप्तधा नतिलक्षणम् ॥

इति (वाच० ) । [ ख ] स्वापकर्षबोधनानुकूल स्वीयव्यापारः । यथा
[

हरये नम इत्यादौ नमःपदार्थः । अत्र स्वमुच्चारयिता । अवधित्वम्

अवधिमत्त्वं वा चतुर्थ्यर्थः । तस्य नमस्कारपदार्थघटकेपकर्षेन्वयः । तथा

च चैत्रायुच्चारितात् नमो हरये इत्यादिशब्दात् हर्यवधिकचैत्रापकर्ष -

बोधानुकूलश्चैत्रीयव्यापारः इत्याकारको बोधः ( ग० व्यु० का० ४

पृ० १०१) । स्वापकर्षबोधानुकूलव्यापारे च कायिकवाचिकमानस-

रूपे विशेषो जातिविशेष एवानुभवसाक्षिकः ( चि० १ पृ० १०३ ) ।

यथा वा ब्राह्मणेभ्यो नमो नित्यमित्यादौ । अत्र विषयत्वं चतुर्थ्या बोभ्यते

( श० प्र० श्लो० ९२ पृ० १२६ ) । यथा वा नमस्करोति नमस्कृत्य

इत्यादौ । अत्र शाब्दिका आहुः । अत्र कृधातोरेव नमनार्थकता है