This page has not been fully proofread.

४०१
 
न्यायकोशः ।
 
( अमर: ३ नाना० श्लो० २४७ ) ( विश्वः ) । ७ विनिग्रहः ।
८ परकृतिः । ९ अधिकारः । १० विनयः । ११ संभ्रमः (मेदिनी ) ।
१२ वाक्यारम्भः ( हैम० )।
 
-
 
ननु च-विरोधोक्तिः ( अमर: ३ अव्यय० श्लो० १४ ) ( वाच० ) ।
नन्दा - या तु मार्गशिरे मासि शुक्लपक्षे तु सप्तमी । नन्दा सा कथिता
नन्दिका – प्रतिपत् ( पुरु० चि० पृ०५८)।
वीर सर्वानन्दकरी शुभा ॥ ( पुरु० चि० पृ० १०४ ) ।
नपुंसकलिङ्कम - (नाम) नपुंसकत्वेन परिभाषितं पदम् । यथा तट-
मित्यादि । परिभाषायाः प्रयोजनं चेह पदसंस्कारः । सोत्र तट-
मित्यादौ क्लीबत्वेन सुबादेरमादेशादिः इति । वैयाकरणास्तु तटादिवस्तुगतं
नपुंसकत्वं पदार्थान्तरमेव । तच्च तटादिरूपप्रकृत्यैव बोध्यते । प्रत्ययानां
तु व्यञ्जकत्वमात्रम् इत्याहुः ( श० प्र० श्लो० ५३ पृ०६८) । कचित्
 
विलक्षणसंस्थानरूपविशिष्टवाचकम् । यथा न प्राणि प्राप्नुयादायम् इत्यादौ ।
कत्वं प्राणिन्यनुभूयते इति विज्ञेयम् ( श० प्र० श्लो० ५३ पृ० ६९ ) ।
 
नमः—१ त्यागः । यथा एषोर्थ्यः शिवाय नमः
 
इत्यादौ नमः शब्दार्थस्त्यागः
 
(ग० व्यु० का० ४ पृ० ९९ ) । शाब्दिकास्तु स्वस्वत्वनिवृत्त्यनुकूलो
• व्यापारः । यथा एषोर्व्यः शिवाय नमः इत्यादौ त्यागो नमः शब्दार्थः
इत्याहु: । शाब्दिकमतेत्र उद्देश्यत्वं चतुथ्येथेः । तथा च शिवोद्देश्यक-
त्यागविषयोर्ध्यः इति शाब्दबोध: ( ल० म० का० ४ पृ० १०५) ।
अन्ये तु मन्त्रकरणकस्त्यागोर्थः । यथा पुष्पमिदं विष्णवे नमः इत्यादौ ।
अन्न प्रीत्युद्देश्यकत्वम् तदिच्छाधीनत्वरूपं नमःपदार्थे मन्त्रकरणकत्यागे
एवं च विष्णूद्देश्यकमन्त्रकरणकत्यागस्य कर्मेदं पुष्पम् इति बोधः ।
 
ब्राह्मणोद्देश्यकस्य
 

 
गवादित्यागस्य
 
मन्त्रकरणकत्वे प्रमाणाभावात्
 
गौर्ब्राह्मणाय नमः इत्यादिको न प्रयोगः ( श० प्र० श्लो० ९२
 
५१ न्या० को ०
 
: