2023-10-27 13:36:31 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
३९७
 
[ग] उत्पत्तेरनन्तरं समवायिकारणे कार्यस्य संसर्गाभावः (त० कौ०

पृ० २१ ) । तदर्थश्च यथा इह कपाले घटो ध्वस्तः इत्यादौ उत्पत्तेर-

नन्तरम् ( प्रतियोगिभूतस्य घटादेरुत्पत्तेरनन्तरम् ) जन्यः समवायिकारणे

(घटस्य समवायिकारणे कपाले ) वर्तमानः कार्यस्य (घटादेः) संसर्गा-

भावः ( तदाख्यः अभावः ) इति । अत्रायं नियमः ध्वंसप्रागभावौ

स्वप्रतियोगिसमवायिदेशे वर्तेते इति । यथा इह कपाले घटो ध्वस्तः

इति प्रतीतिसाक्षिकः अभावः ( प्र० प्र० पृ० २३ ) । यथा वा

तदभ्यध्वंसदासाद्य माहेन्द्रं लक्ष्मणेरितम् इत्यत्र प्राणा दध्वंसिरे गात्रं

तस्तम्मे च प्रिये हते (भट्टि ) इत्यादौ च । अत्र वैयाकरणाः ध्वंसस्या-

तीतत्वाभावेपि फलव्यापारयोर्धात्वर्थत्वेन तदुत्पत्त्यनुकूलव्यापारस्य कारण-

विशेषसंयोगस्यातीतत्वात् ध्वस्तः इति व्यवहार उपपद्यते इत्याहुः ।

तीतत्वादिनैव ध्वस्तः ध्वंसते इत्यादिप्रयोगः । अत्र कर्तृत्वं प्रतियोगित्वम् ।

नैयायिकमते नाशमात्रस्यैव धात्वर्थत्वेपि तदुत्पत्तौ लक्षणा । तस्याश्चा-

तच नाशान्वयि इति । तथा च वर्तमानायुत्पत्तिकनाशप्रतियोगी घटः

इत्यन्वयबोधः ( वाच० ) । अतीतावस्था ध्वंसः इति सांख्या आहुः ।

१. तिरोभावावस्था इति शाब्दिकाः सांख्याश्चाहुः ( ल० म० ) । अत्र सूत्रम्

नाश: कारणलयः इति ( सांख्य० अ० १ सू० १२१ ) । कारणे ल

ध्वनि: - (शब्द: ) १ तारत्वादिधीहेतुः शब्दविशेषः । यथा उन्मद

इत्यर्थः । आत्यन्तिकनाशश्च कारणेन सह नाश इति भेदः ( वाच० ) ।

अत्रोच्यते । ध्वनिर्नाम यो दूरादाकर्णयतो वर्णविशेषमनधिगच्छतः कर्ण-

ध्वनिमृता निभृताक्षर मुज्जगे ( माघ ० स० ६ श्लो० २०) इत्यादौ ।

(वाच० ) । स च ध्वनिर्वैयाकरणमते द्विविधः । प्राकृतः वैकृतश्चेति ।

पथमवतरति प्रत्यासीदतश्च तारत्वादिविशेषमवगमयति इति ( शारीर० )

अत्रोक्तम् भर्तृहरिणा स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते । स्थिति-
'

स्फोटस्याभिव्यक्तौ प्राकृतस्य ध्वनेः कारणत्वम् । चिरचिरतरकालस्थितौ तु

मेदे निमित्तत्वं वैकृतः प्रतिपद्यते ॥ (वाक्यप० ) इति । अत्र विवेकः ।

प्राकृत ध्वनिजातवैकृतध्वनेः कारणत्वम् इति ( शब्दार्थरने ) ( वाच०) ।