This page has not been fully proofread.

३९६
 
न्यायकोशः ।
 
ध्यानम् -[क] चिन्तनम् । यथा इति विज्ञापितो राज्ञा ध्यानस्तिमित
लोचन: ( रघु० १/७३ ) इत्यादौ । [ ख ] योगशास्त्रज्ञास्तु तत्र
प्रत्ययैकतानता ध्यानम् ( पात० पाद ३ सू० २) ( गौ ०१०
४२४४) । यथा ध्येयः सदा सूर्यमण्डलमध्यवर्ती परमात्मा इत्यादी /
यथा वा लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् इत्यादौ । [ग]
तस्मिन् देशे ध्येयावलम्बनस्य प्रत्ययस्य विसदृशप्रत्ययप्रहाणेन !
ध्यानम् । तदुक्तम् तद्रूपप्रत्ययैकाग्र्या संततिश्चान्यनिस्पृहा ।
 
प्रवाहो
तड्यानं
 
● प्रथमैरङ्गैः पडिर्निष्पाद्यते तथा ॥ ( सर्व० सं० पृ० ३८३ पातञ्ज० ) ।
[घ ] निदिध्यासनम् । यथा आगमेनानुमानेन ध्यानाभ्यासरसेन च ।
त्रिधा प्रकल्पयेत्प्रज्ञां लभते योगमुत्तमम् ॥ ( श्रुतिः ) इत्यादौ । [३]
रागोपहतियनम् ( सां० सू० ३।३० ) इति सांख्या आहुः / [ च
ब्रह्मात्मचिन्ता ध्यानं स्यात् इति वेदान्तिनः । [छ ] मायावादिवेदान्ति-
नस्तु ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशम्य
 
विख्याता परमानन्ददायिनी ॥ इति मन्यन्ते ।
 
ध्वंसः – ( अभावः ) [क] विनष्टः इति प्रतीतिसाक्षिक उत्पत्तिमानभाव
( न्या० म० १ पृ० ११ ) ( त० दी० १ पृ० ४० ) (वाक्य)
 
पृ० २३ ) । स च
 
प्रतियोगिजन्यः
 
प्रतियोगिसमवायिनि देशे वर्तत
 
( त० दी० १ पृ० ४० ) । स च कार्यस्योत्पत्त्यनन्तरमपद्य
इति ज्ञेयम् । अत्र गमकम् । ध्वंसो न विनाशी विनाशकेल.
नायां मानाभावात् । नहि विनाशो विनष्टः इति कविप्रोति इति
( न्या० म० १ पृ० ११ ) ( नील० १ पृ० १०) / तलक्ष्य
च ध्वंसत्वमेव । तच्च जन्याभावत्वम् (मु० १ ) ।
• खण्डोपाघिः ( म० प्र० पृ० १२ ) इति नव्यनैयायिकाः
सत्यभावत्वम् (वाक्य० पृ० २३ ) । ध्वंसत्वं च अभावत्वव्यामो
( वाच० ) । अयं भावः । जन्यत्वस्य प्रायेण दर्ज्ञानत्वात तस्याखाण
•पाधिरूपत्वमङ्गीकर्तव्यम् इति । ख ] सादिरनन्तः (त० सं० )
 
• उत्पत्तिमत्त्वे सति नाशशून्य इत्यर्थः । यथा घटो नश्यतीत्यादौ
 
अथवा उत्पत्तिमाल
 
ATG