2023-10-26 17:28:18 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
शास्त्रज्ञाः तान्त्रिकाचाहुः । ५ आकाशादिमहाभूतानि इति पौराणिकाः ।

६ इन्द्रियाणि रूपरसगन्धस्पर्शशब्दाश्च धातुशब्दवाच्या भवन्तीति

यः शब्दः स्वोत्तरतृचः शक्येर्थे स्वोपस्थाप्यस्य यादृशार्थस्यान्वयबोधं

शास्त्रान्तरविद आहुः ( वाच० ) । ७ शब्दप्रकृतिः [क ]

प्रति समर्थः स तादृशार्थे धातुरुच्यते । यथा पच पिपक्ष इत्यादयो

धातवः । अत्र धातूनाम् अनेकार्थकत्वम् इति सर्वे सर्वार्थवाचकाः इति

च शाब्दिकादीनां राद्धान्तोनुसंधेयः । अत्र अनेकार्थकत्वं च व्याकरण-

कोश इत्याद्यभियुक्तकृततत्तदर्थकत्वम् ( त० प्र० ख० ४ पृ० ७०) ।
 

सर्वार्थवाचकत्वं च स्वप्रवृत्तिनिमित्तसमानाधिकरणकृत्स्नधर्माश्रयवाचकत्वम्।
 

धातुलक्षणं च क्रियावाचित्वे सति भ्वादिगणपठितत्वम् ( ल० व० ) ।

तृर्थ कर्त्रादौ स्वोपस्थाप्यानां पचनपाकेच्छादीनामन्वयधियं प्रति प्रभवो

पचपिपक्षादयो हि शब्दा: पक्तृ पिपक्षितृ इत्यादिनामनिविष्टाः खोत्तर-

भवन्तीति लक्षणसमन्वयोत्र बोध्यः ( श० प्र० श्लो० ५५ ५० ७० ) ।

[ख यः शब्दः स्वान्ते कृच्चिन्तनं विना सुबर्थे यादृशस्य निजार्थस्या-

न्वयधियं प्रत्यसमर्थः स एव तादृशार्थको धातुः । यथा पाकं कुरु संपदं
 

 

इति ज्ञेयम् । अत्र हि पचादिको धातुः स्वोत्तरस्य भावकृतः घञ् किप्

इत्यादि प्रत्ययस्य प्रतिसंधानदशायामेव सुबर्थकर्मत्वादौ स्वार्थस्य पचनादेर-

न्वयबोधमाधत्ते न त्वन्यथेति लक्षणसमन्वयः ( श० प्र० श्लो० ५५ ५०
● ) ।

धात्वर्थप्रकारकबोधं प्रति धातुप्रकृतिकप्रत्ययजन्योपस्थितेर्हेतुत्वात् ।

[ग] शाब्दिकास्तु क्रियावाचको भ्वादिगणपठितः शब्दविशेषः इत्याहुः ।

अत्र वा इत्याद्यव्ययानामपि गणपठितत्वेन धातुत्वापत्तिः । तद्वारणाय

क्रियावाचित्वविशेषणम् । हिरुगाद्यव्ययानां क्रियावाचित्वेन धातुत्वापत्तिः ।

तद्वारणाय गणपठितत्वं विशेषणं दत्तम् ( वाच० ) । [घ ] भाव-

वचनो धातुः ( सर्व० सं० पृ० ३०५ पाणि० ) / धातुत्रिविधः ।
 
रुच्यते
 
३८९
 

। यथा भूपचप्रभृतिः । अत्र सूत्रम् भूवादयो धातवः ( पा०