2023-10-26 17:25:37 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.


 
३८७
 
न्यायकोशः ।
 
प्रयोजनमुद्दिश्य विधीयमानोर्थो धर्मः ( मी० न्या० पृ० १ ) । अर्थत्वे

सति चोदनागम्यो धर्मः ( जै० न्या० १ । १ । १ ) । स च धर्मः भट्ट

यागादिः प्राभाकरमते त्वपूर्वनाम पुण्यम् ( तत्त्वबोधिनी ) ( वाच० ) ।

एतद्धर्मप्रमाणम् वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एत

चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ ( मनु० २११२ ) इति ।

दशविधं धर्मलक्षणं च मनुनोक्तम् धृतिः क्षमा दमोस्तेयं शौचमिन्द्रिय-

निग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ ( मनु० अ०

६ श्लो० ९२ ) इति । धर्मस्य शुद्धिश्च तेनैवोक्ता प्रत्यक्षं चानुमानं

च शास्त्रं च विविधागमम् । त्र्यं सुविदितं कार्य धर्मशुद्धिमभीप्सता ॥

( मनु० अ० १२ श्लो० १०५ ) इति । यथा धर्मः स्वनुष्ठितः पुंसा-

मित्यादौ यागादिर्धर्मः ( मीमां० कौ० ) । यथा वा गङ्गास्नानादिव्या-

पारः ( त० मा० ) । स च धर्मः षड़िधः वर्णधर्मः आश्रमधर्मः

वर्णाश्रमधर्मः गुणधर्मः निमित्तधर्मः साधारणधर्मश्चेति ( मिता० १।१ ) ।

हेतुः अतीन्द्रियः अन्त्यसुखसंविज्ञान विरोधी पुरुषान्तःकरणसंयोगजः

४ कर्तव्यविशेषः पुरुषविशेषगुणः प्रयत्नगुणकर्तुः प्रियहितमोक्ष-

विशुद्राभिसंधिजः वर्णाश्रमिणां प्रतिनियतसाधननिमित्तः । अस्य तु

साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणां सामान्यविशेषभावेनावस्थि

तानि द्रव्य गुणकर्माणि । तत्र सामान्यानि धर्मे श्रद्धा अहिंसा भूतहितम्

सत्यवचनम् अस्तेयम् ब्रह्मचर्यम् अनुपधा क्रोधवर्जनम् अभिषेचनम्

शुचिद्रव्यसेवनम् विशिष्टदेवताभक्तिः उपवास: अप्रमादश्च । ब्राह्मण-

याजनानि स्ववर्णनियताश्च संस्काराः । क्षत्रियस्य सम्यक् प्रजापरिपालनम्

क्षत्रियविशा मिज्याध्ययनदानानि । ब्राह्मणस्य विशिष्टानि प्रतिग्रहाध्यापन-

असाधुनिग्रहः युद्धेप्यनिवर्तनम् स्वकीयाश्च संस्काराः । वैश्यस्य क्र

निवासिनः स्वशास्त्र विहितानि गुरुशुश्रूषाग्नीन्धनभैक्षाचरणादीनि मधु-

विक्रयकृषिपशपालनानि स्वकीयाश्च संस्काराः । शूद्रस्य पूर्ववर्णेषु पार-

तथ्यम् अमन्त्रिीकाश्च क्रियाः । आश्रमिणां तु ब्रह्मचारिणो गुरुकुल-

मांसदिवास्वप्नाम्यञ्जनादिवर्जनं च । विद्याव्रतस्त्रात कस्य कृतदा