2023-10-26 17:22:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

<द्वैतवाद:>
जीवेश्वरादिभेद निर्णायकः कथा विशेषः । यथा गौतमादिप्रणीतः
कथारूपग्रन्थविशेषः । अत्र व्युत्पत्तिः । द्विधा इतं द्वीतम् । तस्य भावः
द्वैतम् । स्वार्थे वा अण् । द्वैतमधिकृत्य वादो द्वैतवादः इति ( वाच० ) ।
द्वैतवादे प्रमाणानि ॐ भेदव्यपदेशात् ॐ ॐॐ प्रकरणात् ॐॐॐॐ
स्थित्यदनाभ्यां च ॐ ( ब्रह्मसूत्र० १/३/५-७ ) । जुष्टं यदा पश्यत्य-
न्यमीशमस्य महिमानम् । द्वा सुपणों सयुजा सखाया समानं वृक्षं
परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति
बहुत्वम् ( सां० सू० अ० १ सू० १४९) नाद्वैतश्रुतिविरोधो जाति-
(मु० ३११११) (तत्त्वप्रका० १३/५ - ७ ) । जन्मादिव्यवस्थातः पुरुष
परत्वात् ( सां० सू० अ० १ सू० १५४ ) इत्यादीनि ज्ञेयानि । सांख्य-
कारिकायामप्युक्तम् । जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषत्वं सिद्धं गुण्यविपर्ययाच्चैव ॥ (सांख्यका० श्लो० १८) इति ।
अद्वैतमतानि च सांख्ययोगन्यायतर्कपूर्वमीमांसोत्तरमीमां
ज्ञेयानि । अत्रोत्तरमीमांसाशब्देन मध्वापरनामश्रीपूर्णप्रज्ञाचार्यप्रणीतं वेदा-
तशास्त्रं ग्राह्यम् । शांकरमतमद्वैतम् रामानुजमतं विशिष्टाद्वैतम् वल्लभमतं
तु शुद्धाद्वैतम् इति च ज्ञेयम् । द्वैतमतेषु जगतः सत्यत्वम् जीवेश्वरादि-
सायुज्यादिमोक्ष प्रतिपाद्यते इति विज्ञेयम् । षड्दर्शनकर्तारश्च सांख्य
मेदपञ्चकम् परमात्मनः सर्वोत्तमत्वं स्वातत्र्यं च जीवानां तु बहुविधत्वं
शास्त्रप्रणेता कपिल: योगशास्त्रप्रणेता पतञ्जलिः न्यायशास्त्रप्रणेता
मीमांसाशास्त्र प्रणेता श्रीसत्यवतीसुतो व्यासश्चेत्येते ज्ञेयाः ।
गौतमः तर्कशास्त्र प्रणेता कणाद : पूर्वमीमांसाशास्त्र प्रणेता जैमिनि: उत्तर
 
<ॠणुकम्>
[क] परमाणुद्वयसंयोगेन यदुत्पद्यते तत् ( त० दी० १
१० ९) (त० कौ० १ पृ० ३) । यथा विषयो द्व्यणुकादिस्तु
[ख] अणु परमाणू स्यात् इति बादरायणाचार्या आहुः ( भाग० ) ।
ब्रह्माण्डान्त उदाहृतः ( भा०प० श्लो० ३९) इत्यादी द्व्यणुकम् ।
[ग] नव्या नास्तिकास्तु संयुक्ताणुद्वयं द्व्यणुकम् इत्याहुः (प० मा० ) ।
अत्र व्युत्पत्तिः द्वौ अणू कारणे यस्य तत् इति द्रष्टव्या । द्व्यणुकं तु
४९ न्या० को०