2023-10-26 17:07:38 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३७८
 
न्यायकोशः ।
 
त्वम् उद्देश्यत्वं वा । यथा वह्निमत्त्वेन पर्वतमनुमिनोमीलादौ ।

द्वितीयार्थः । अयं द्वितीयाथस्तु ( उद्देश्यत्वम् उद्देश्यित्वं वा) यदि वहि

साध्यकपर्वतपक्षकानुमितिपरस्य वह्निमत्त्वेन पर्वतमनुमिनोमि इत्यादि ।

वाक्यस्यापि प्रामाण्यं मन्यते तदाङ्गीकर्तव्यः । तथा च तादृशद्वितीयायों

वह्निमत्त्वेनेत्यत्र तृतीयार्थो वैशिष्ट्यम् । तच्चात्र विधेयत्वमेवेति न तृतीया-

देश्यत्वादेश्च तृतीयान्तोपस्थाप्यसाध्यविधेयकत्वेन विशिष्टेन्वयः कर्तव्यः ।

थोनुपपत्तिः ( ग० व्यु० का० २ ख० २ पृ० ५५-५६ ) / वया

वा विष्णुं यजते इत्यादौ द्वितीयार्थः । कचिच्च समवायसंबन्धावच्छिन्न

द्वितीयार्थः । अत्र तादृश प्रकारितायाश्च गन्धनिरूपितलौकिकविषयिता.

धेयत्वसंसर्गावच्छिन्नविषयता निरूपित प्रकारिता । यथा पुष्पं जिम्रतीयादौ ।

तेन इदानींतनपुष्पे गन्धः इत्यादिप्रत्ययस्याधेयतासंसर्गेण कालादिप्रकार।

शालिप्रत्यक्षात्मकधात्वर्यैकदेशे विषयितायां निरूपितत्वसंबन्धेनान्वयः /
 

कत्वेपि तादृश प्रत्यक्षदशायां न कालं जिघ्रति इत्यादिप्रयोगः ( ग

का० २ ख० १ पृ० ५२ ) । कचिच्च लौकिकविषयित्वम् । यथा
 
ग० न्यु०
 

पश्यतीत्यादौ द्वितीयार्थ: । कचित् तादात्म्यसंबन्धावच्छिन्न प्रकारता /

यथा रङ्गे अमेदेन रजतारोपस्थले रङ्गं रजतं जानाति इत्यादौ द्वितीयार्थः /

कचित् विशेष्यता । यथा पार्क चिकीर्षतीत्यादौ द्वितीयार्थः । *

पाकादेश्च कृतिकर्मत्वमेव द्वितीयया प्रत्याय्यते । न त्विच्छाया विषयाच

रूपं कर्मत्वम् । गृहस्थितीच्छामादाय गृहं तिष्ठासति इत्यादिप्रयोगाते
 
A
 

( ग० व्यु० का० २ ख० २ पृ० ५९) । अत्रेदं ज्ञेयम् ।
पुत्रकाम्यतीत्यादी
न्तादेरकर्मकस्य सन्नन्तसमानार्थकत्वेपि पुत्रीयति
आचारार्थ
साकाङ्क्षत्वानुपगमेन न द्वितीया । भृत्यं पुत्रीयतीत्यादौ तु
 

विहितक्यजन्तस्य सकर्मकत्वं युज्यत एवेति तत्र द्वितीया (ग० ५०
 
पुत्रकाम्यतीत्यादी
 
आचारार्थ
 

का० २ ख० २ पृ० ६३ ) । कचित् मुख्य विशेष्यत्वम् /

दृष्टिसाध्यं सुखं भवतु इत्यत्र सुखस्यैव न तु वृष्टेः कर्मत्वं द्वितीयार्थः ।

अतस्तत्र तादृश विवक्षायां सुखमिच्छति इत्यादिवत् वृष्टिमिच्छति इत्याद

न प्रयोगाः ( ग० व्यु० का० २ ख० २ पृ० ५९ ) /
 
यथा
 
कवित