2023-10-26 17:06:33 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
३७७
 
इति प्राहुः । अत्र विभागावच्छिन्नक्षरणानुकूलव्यापारो दुहेरर्थः । तत्र

विभागे गोपदोत्तरद्वितीयार्थवृत्तित्वस्य क्षरणे च पयःपदोत्तरद्वितीयार्थ-

बोध्यम् । गामित्यत्र अकथितं च ( पा० सू० ११४/५१) इत्यनेन

वृत्तित्वस्यान्वयो बोध्यः ( ग० व्यु० का० २ पृ० ४४ ) । अत्रेदं

कर्मसंज्ञा । पय इत्यत्र तु कतुरीप्सिततमं कर्म (पा० सू० १ । ४।४९)

इत्यनेन कर्मसंज्ञा । तथा च कर्मणि द्वितीया (२।३।२ ) इत्यनेनो-

भयत्र द्वितीया इति । अधिकं तु दोहनशब्दव्याख्यानावसरे संपादितम्

इति तत्र द्रष्टव्यम् ।' अत्र आश्रयो द्वितीयार्थः इति शाब्दिका आहुः

(वै० सा. ) । कचित्कर्मत्वं विषयरूपत्वम् । यथा भाविनं घटं जानाति

( न्या० म० ४ पृ० ६) पौरवं गां याचते इत्यादौ द्वितीयार्थः ।

अत्र विद्यमानघटस्थले ज्ञानेन ज्ञाततोत्पादनमङ्गीकृत्य क्रियाजन्यफल-

कर्तुरीप्सिततमं कर्म इत्यनेन सूत्रेण लक्षणया विषयत्वात्मकं गौ
"

पूर्व घटस्याभावेन ज्ञातताया जननासंभवात् इति भावः । एवं च

शालित्वरूपकर्मत्वमपि कदाचित्संभवति इत्यतः भाविनम् इत्युक्तम् । तत्र
 

पूर्वोक्तमेव गौणं कर्मध्वम् । पौरवस्य गां दोग्धि इत्यत्रेव कर्मत्वं बोध्यम् ।

बढिमनुमिनोमीत्यादौ द्वितीयार्थः । अत्रेदं बोध्यम् । ज्ञानादिरूपसविषयक

तच विषयत्वरूपं कर्मत्वं क्वचिद्विधेयत्वम् विधेयित्वं वा । यथा पर्वते

वस्त्वभिधायक धातुसमभिव्याहृतद्वितीयायाः प्राचीनमते विषयत्वमर्थः ।

तस्य च निरूपकतासंबन्धेन धात्वर्थेन्वयः । विषयत्वे प्रकृत्यर्थस्याधेयता-

संबन्धेनान्वयः इति । नव्यास्तु वृत्त्यनियामकसंबन्धस्याभावप्रतियोगि

तानवच्छेदकतया घटं जानाति पटं न इत्यादौ प्राचीनमते शाब्दबोध

तासंबन्धेनान्वयः इति । घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयत्व-

अनुपपत्तेस्तत्र द्वितीयाया विषयित्वमेव शक्यार्थमुपवर्णयन्ति । तन्मते तत्र

विषयित्वे प्रकृत्यर्थस्य निरूपितत्वसंबन्धेन विषयित्वस्य च धात्वर्थ आश्रय-

मेव । विषयित्वादौ च द्वितीयाया लक्षणैव न तु शक्तिः इति सांप्रदा-

यिका आहुः (ग० व्यु० का० २ ख० २ पृ० ५१ ) । कचित्त
 

४८ न्या० को ०