2023-10-26 16:53:09 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३६९
 
न्यायकोशः ।
 
(मा० आ० ५४/७८) तं दुद्रावाद्रिणा कपिः (भट्टि० ) इत्यादौ
 

इत्याहु: ( वाच० ) ।
 
द्रव्यत्वम् -

 
<द्रव्यत्वम्>
१ ( सामान्यम् ) गगनारविन्दसमवेतत्वे सति नित्यत्वे सति

गन्धासमवेतत्वम् ( सर्वे० पृ० २१५ औलू० ) । तच्च नित्यमनेकद्रव्यमात्र-

समवेतम् (वै० उ० १ । २ । ११ ) । यथा क्षित्यादीनां नवानां तु द्रव्यत्वम्

( भा०प० श्लो० २४) । अत्र द्रव्यत्वत्वं तु द्रव्येतरासमवेतत्वे सति

सकलद्रव्यसमवेतत्वम् । एवम् पृथिवीत्वत्वघटत्वत्वादिकमपि निर्वाच्यम् ।

२ लिङ्गसंख्यान्वयित्वं द्रव्यत्वम् इति शाब्दिका वदन्ति । लिङ्गसंख्या-

कारकत्वशून्यत्वं सत्त्वत्वम् । तदेव द्रव्यत्वम् इति भावः (वाच ० ) ।
द्रव्यम् -

 
<द्रव्यम्>
( पदार्थ: ) १ [क ] गुणाश्रयः ( त० दी० पृ० ४) ।

अत्रायं नियमः । प्रथमं द्रव्यं निर्गुणं निष्क्रियं चैवोत्पद्यते पश्चात्तत्समवेता

गुणक्रिया उत्पद्यन्ते इति । गुणाश्रयत्वं चात्र गुणयोग्यत्वम् ।

द्रव्यत्वजातिमत्त्वं वा द्रव्यलक्षणम् इति बोध्यम् ( त० दी० ११४ )

गुणात्यन्ताभावानधिकरणत्वम् ( त० भा० ) । इदं द्रव्यलक्षणम्

( त० कौ० ) । इत्थं च तत्र सूत्रम् क्रियागुणवत् समवायिकारण-

द्रव्यलक्षणम् (वै०
 

सत्ताभिन्ना च या जातिः ( द्रव्यत्वम् ) तद्वत्त्वम् । तेन आद्यक्षणा-

० १।१।१५) इति । अथवा गुणसमानाधिकरणा

वच्छिन्ने उत्पन्नविनष्टे च द्रव्ये नाव्याप्तिः ( त० दी० १ पृ० ५ ) ।

ख समवायिकारणम् ( त० भा० अर्थ० पृ० २७ ) ( भा०प०

पृ० ४ ) ( त० कौ० १ पृ० १ ) । द्रव्यत्वजातिस्तु कार्यसामान्

साधर्म्य ० श्लो० २३) । [ग] द्रव्यत्वरूपजातिमत् ( त० दी० १

संयोगस्य विभागस्य वा समवायिकारणतावच्छेदकतया सिद्ध्यति

(वे० वि० ११ १२ १५) (मु० १ पृ० ३० ) ( नील० १ पृ० ४ ) ।

च्छिन्ना कारणता त्वाद्दण्ड निष्ठघटकारणतावत् इत्यनुमानेन द्रव्यत्वं जातिः

तथाहि कार्यसमवायिकारणता किंचिद्धर्मेण ( अर्थात् द्रव्यत्वेन )
अव-
सिध्यति

अनुगतः अन्यूनः
 
अनतिप्रसक्तश्च यो धर्मस्तस्यैवावच्छेदकत्वेन
 

ताशयत्किंचिद्धर्मस्य जातित्वावश्यकत्वात् इति भावः । एवम् गुणत्वा
 

४७ न्या० को०
 
मिति