This page has not been fully proofread.

न्यायकोशः ।
 
स्थले संकेतश्च स्वजन्यबोधवत्त्वेनाभिप्रायविषयतावच्छेदकावच्छिन्नविषय-
कत्व स्वजन्यत्व एतदुभयसंबन्धेन युष्मत्पदप्रकारकबोधविषयकोभ्युपेयते
 
(ग० शक्ति० टीका० पृ० ७५ ) । तत्र बोधः तादृशोभयसंबन्धेन
• युष्मत्पदवान् भवतु इत्याकारकः संकेतो ज्ञेयः । ग संबोध्यश्चेतन-
स्त्वंपदार्थ इति शाब्दिकादय आहुः ।
वाष्ट्रम्- ( नक्षत्रम्) चित्रा (पु० चि० पृ० ३५७ ) ।
 
द.
 
दक्षिण:-१ [क] शरीरावयववृत्तिजातिमान् ( वै० उ० २१ २ । १० ) ।
यथा पुरुषस्य दक्षिणभाग इत्यादौ । [ ख ] अवामो देहभागविशेष
इत्यपि केचित् । २ नायकनायिका विशेषाविति साहित्यशास्त्रज्ञाः ।
३ परच्छन्दानुवर्ती । ४ कुशल इति काव्यज्ञाः ।
 
दक्षिणा - १ यज्ञाद्यन्ते दानम् । अत्राम्नायते तस्मान्नादक्षिणं हविः स्यात्
इति शतपथश्रुतिः । पुराणमपि अदत्तदक्षिणं दानं व्रतं चैव नृपोत्तम ।
विफलं तद्विजानीयाद्भस्मनीव हुतं हविः ॥ इति ( भविष्यपु० )
( वाच० ) । आनत्यर्थदान एव दक्षिणाशब्दो रूढः ( जै० सू० वृ०
अ० १० पा० २ सू० ३६ ) । २ ( दिक् ) [क ] प्राच्यभिमुख-
(२।१५ ) । अत्र दक्षिणत्वं तु शरीरावयववृत्तिजातिविशेषः । [ख]
पुरुषदक्षिणभागावच्छिन्ना दिक् (बै० उ० २१२११०) (वै० २।
मेरुव्यवहितदेशावच्छिन्ना दिक् ( वाक्य ० १ पृ० ५) ( न्या० बो० १
पृ० ३) (मु० १ पृ० ९४ ) ( बै० वि० २१२११० ) । यथा
झळकी प्रामादक्षिणस्यां दिशि विजयपुरम् ( विजापुर ) । अत्र च
मेरुगिरि संयुक्त संयोगवन्मूर्तवृत्ति विजयपुरम् इति शब्दबोध: । -
रुगयुक्तसंयोगपर्याप्तसंख्या व्यापकसंख्या पर्याप्
शशी । सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगघीश्वराः ॥ इति
 

 
( ज्योति ० त० ) ।
 
३४७
 
: