2023-10-25 15:50:46 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३४४
 
न्यायकोशः ।
 
इति ( भाग० ३।१२।५ ) । २ महादेवभट्टास्तु त्रिभिः सहितो रेगुः

त्रसरेणुः इति व्युत्पत्त्या त्रिभिः परमाणुभिरेव त्रसरेणु: त्र्यणुकंवा

भवतीत्याहुः ( दि० ) ( राम० १ पृ० ६९ ) । ३ त्रयोणवस्त्रसरेणु-

रिति बादरायणाचायो आहुः इति केचित् । ४ भिषजस्तु जालान्तरगत

सूर्यकरे ध्वंसी विलोक्यते । त्रसरेणुश्च स ज्ञेयस्त्रिंशता परमाणुभिः ॥
 

इत्याहुः । ५ सूर्यपत्नीति पौराणिका आहुः ( वाच०) ।
 
मैत्र
 

 
<
त्राणम् ->
[क] अनिष्टनिवृत्त्यनुकूलो व्यापारः । यथा दस्युभ्यो

त्रायते रक्षति कुलालाइटं रक्षति इत्यादौ रक्षत्यर्थः । यनिष्ठखदुःखो

पधायकव्यापारविरहानुकूलव्यापारः तदपादानकं स्वकर्मकं रक्षणम्

परमार्थः । दस्युभ्य इत्यत्र भीत्रार्थानां भयहेतुः (पा० सू० १/४/२५

इत्यनेनापादानसंज्ञा । तदर्थश्च अनिष्टविरहानुकूलव्यापाररूपत्राणार्थ

(ग० व्यु० का० ५ पृ० १०६) । घटाद्यचेतनकर्मकरक्षण

धातुयोगे यदनिष्टप्रयोजकं तदपादानम् इति । अनिष्टं च दुःख
 
स्वर
 

र्मकं रक्षणमिति निर्वाच्यम् । कुलालाद्धटं रक्षतीत्यादौ प्रयोज्यत्वं पञ्चम्यर्थः

यन्निष्ठस्वविनाशोपधायकव्यापारविरहानुकूलव्यापारः तदपादानकं

तथा च कुलालप्रयोज्यो यो घटनाशोपधायकव्यापारः तद्विरहानुकू

व्यापारकर्ता इति बोधः । यथा वा न कुर्वीतात्मनस्त्राणं गोरक

तु शक्तितः ( मनुः अ० ११ श्लो० ११३) इत्यादौ । स

केचित्तु अनिष्टपरिहारः । यथा चोरात्रायत इत्यादौ इत्याहुः ।
 
[
 

चोरापादानकानिष्टपरिहारः इति बोधः ।
 

 
<
त्रिपुटी>
मितिमातृमेयविषयिका प्रमा । यथा प्रभाकरमते सर्वस्य ज्ञान

मितिमातृमेयविषयकत्वात् त्रिपुटीप्रत्यक्षतेति ( त० प्र०
 

पृ० १२९ ) ।
 

 
<
त्रिमूर्तिनी>
त्रिवर्षा कन्या ( कल्याणीशब्दे दृश्यम् ) ।
 

 
<
त्रिवृत् - >
स्तोमः । यथा त्रिवृद्वहिष्पवमानः ( जै० न्या० अ० १०/-

अधि० ७) ।