This page has not been fully proofread.

३४४
 
न्यायकोशः ।
 
• इति ( भाग० ३।१२।५ ) । २ महादेवभट्टास्तु त्रिभिः सहितो रेगुः
त्रसरेणुः इति व्युत्पत्त्या त्रिभिः परमाणुभिरेव त्रसरेणु: त्र्यणुकंवा
भवतीत्याहुः ( दि० ) ( राम० १ पृ० ६९ ) । ३ त्रयोणवस्त्रसरेणु-
रिति बादरायणाचायो आहुः इति केचित् । ४ भिषजस्तु जालान्तरगत
• सूर्यकरे ध्वंसी विलोक्यते । त्रसरेणुश्च स ज्ञेयस्त्रिंशता परमाणुभिः ॥
 
इत्याहुः । ५ सूर्यपत्नीति पौराणिका आहुः ( वाच०) ।
 
मैत्र
 
त्राणम् -[क] अनिष्टनिवृत्त्यनुकूलो व्यापारः । यथा दस्युभ्यो
त्रायते रक्षति कुलालाइटं रक्षति इत्यादौ रक्षत्यर्थः । यनिष्ठखदुःखो
पधायकव्यापारविरहानुकूलव्यापारः तदपादानकं स्वकर्मकं रक्षणम्
परमार्थः । दस्युभ्य इत्यत्र भीत्रार्थानां भयहेतुः (पा० सू० १/४/२५
इत्यनेनापादानसंज्ञा । तदर्थश्च अनिष्टविरहानुकूलव्यापाररूपत्राणार्थ
(ग० व्यु० का० ५ पृ० १०६) । घटाद्यचेतनकर्मकरक्षण
धातुयोगे यदनिष्टप्रयोजकं तदपादानम् इति । अनिष्टं च दुःख
 
स्वर
 
• र्मकं रक्षणमिति निर्वाच्यम् । कुलालाद्धटं रक्षतीत्यादौ प्रयोज्यत्वं पञ्चम्यर्थः
यन्निष्ठस्वविनाशोपधायकव्यापारविरहानुकूलव्यापारः तदपादानकं
तथा च कुलालप्रयोज्यो यो घटनाशोपधायकव्यापारः तद्विरहानुकू
व्यापारकर्ता इति बोधः । यथा वा न कुर्वीतात्मनस्त्राणं गोरक
तु शक्तितः ( मनुः अ० ११ श्लो० ११३) इत्यादौ । स
केचित्तु अनिष्टपरिहारः । यथा चोरात्रायत इत्यादौ इत्याहुः ।
 
[
 
चोरापादानकानिष्टपरिहारः इति बोधः ।
 
त्रिपुटी – मितिमातृमेयविषयिका प्रमा । यथा प्रभाकरमते सर्वस्य ज्ञान
मितिमातृमेयविषयकत्वात् त्रिपुटीप्रत्यक्षतेति ( त० प्र०
 
पृ० १२९ ) ।
 
त्रिमूर्तिनी — त्रिवर्षा कन्या ( कल्याणीशब्दे दृश्यम् ) ।
 
त्रिवृत् - स्तोमः । यथा त्रिवृद्वहिष्पवमानः ( जै० न्या० अ० १०/-
अधि० ७) ।