2023-10-25 15:49:27 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
<त्यज्- >
(धातुः ) त्यागः । अत्रोदाह्वियते । यथा वृक्षं खगस्यजतीत्यादौ

त्यजेरर्थः । अत्र द्वितीयाया विभागोर्थः । तेन वृक्षावधिकविभागवती या

वृक्षावधिक विभागवत्त्वं च जनकत्वस्वाश्रयवृत्तित्व एतदुभयसंबन्धेनैव क्रि

विभागावच्छिन्नक्रिया तद्वान् खगः इत्याकारस्तत्र बोधः । अत्रेदं बोध्यम् ।

यायां ग्राह्यम् । अतः खगावधिक विभागस्य खगादावसत्त्वात् खगं त्यजति

खगः इत्यादिको न प्रयोगः ( श० प्र० श्लो० ७२ पृ० ९२-९३ ) ।

यथा वा त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थ

आत्मार्थे पृथिवीं त्यजेत् ॥ (चाणक्य ० ) इत्यादौ त्यजेरर्थः ।

 
<
त्याग:->
१ विभागावच्छिन्नक्रिया । न माता न पिता न स्त्री न पुत्रस्त्याग-

महति ( मनु० अ० ८ श्लो० ३८९ ) । २ तस्यायं भवतु इत्यादि-

फलेच्छाधीनस्वस्वत्वा भावेच्छा । यथा एषोर्ध्यः शिवाय नमः इत्यादौ

नमः शब्दार्थस्त्यागः (ग० व्यु० का० ४ पृ० ९९ ) । ३ तन्न मम इति

ज्ञानम् इच्छा वा ( म० प्र० पृ० ५३ ) । ४ स्वत्वध्वंसजनकेच्छा ।

यथा पुष्पेण विष्णुं यजते इत्यत्र यजेरर्थः ( श० प्र० ७२ श्लो०

पृ० ९५) । ५ स्वत्वध्वंसानुकूलव्यापार इति शाब्दिका वदन्ति ।

सच त्यागः सात्त्विक राजसतामसभेदेन त्रिविध इति वेदान्तिनः । स च

स्वत्वध्वंस: मूर्तद्रव्याणामेव भवति । अमूर्तद्रव्याणां तु वियोगमात्रम्
 

इति विज्ञेयम् ( वाच ० ) ।
 
३४३
 

 
<
त्रस: - >
( जीवः ) शङ्खगण्डोलकप्रभृतयश्चतुर्विधास्त्रसाः ( सर्व० सं०
 

पृ० ७०
आई०
० ) ।
 
) ।
 
३ संकी०
 
श्लो० २४ ) ।
 

 
 
 
 
<त्र
सर: - >
तन्तुवायकृतसूत्रवेष्टनविशेष: ( अमरः काण्ड ०

श्लो० २४ ) ।
 
<
त्रसरेणु:- >
त्र्यणुकम् । तद्यथा जालान्तरगते भानौ सूक्ष्मं यदृश्यते रजः ।

प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ इति (मनु० अ० ८ श्लो० १३२) ।

सच जन्यद्रव्यावयव इति ज्ञेयम् । परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः इति
 

( ब्रह्मवै ०
० पु० ) ( वाच०
) । अणु परमाणू
 
पः स्मृतः
 
स्यात्रसरेणुस्त्रयः