This page has not been fully proofread.

न्यायकोशः ।
 
त्यज्- (धातुः ) त्यागः । अत्रोदाह्वियते । यथा वृक्षं खगस्यजतीत्यादौ
त्यजेरर्थः । अत्र द्वितीयाया विभागोर्थः । तेन वृक्षावधिकविभागवती या
• वृक्षावधिक विभागवत्त्वं च जनकत्वस्वाश्रयवृत्तित्व एतदुभयसंबन्धेनैव क्रि
विभागावच्छिन्नक्रिया तद्वान् खगः इत्याकारस्तत्र बोधः । अत्रेदं बोध्यम् ।
• यायां ग्राह्यम् । अतः खगावधिक विभागस्य खगादावसत्त्वात् खगं त्यजति
• खगः इत्यादिको न प्रयोगः ( श० प्र० श्लो० ७२ पृ० ९२-९३ ) ।
यथा वा त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थ
आत्मार्थे पृथिवीं त्यजेत् ॥ (चाणक्य ० ) इत्यादौ त्यजेरर्थः ।
त्याग:-१ विभागावच्छिन्नक्रिया । न माता न पिता न स्त्री न पुत्रस्त्याग-
महति ( मनु० अ० ८ श्लो० ३८९ ) । २ तस्यायं भवतु इत्यादि-
फलेच्छाधीनस्वस्वत्वा भावेच्छा । यथा एषोर्ध्यः शिवाय नमः इत्यादौ
नमः शब्दार्थस्त्यागः (ग० व्यु० का० ४ पृ० ९९ ) । ३ तन्न मम इति
ज्ञानम् इच्छा वा ( म० प्र० पृ० ५३ ) । ४ स्वत्वध्वंसजनकेच्छा ।
• यथा पुष्पेण विष्णुं यजते इत्यत्र यजेरर्थः ( श० प्र० ७२ श्लो०
पृ० ९५) । ५ स्वत्वध्वंसानुकूलव्यापार इति शाब्दिका वदन्ति ।
सच त्यागः सात्त्विक राजसतामसभेदेन त्रिविध इति वेदान्तिनः । स च
स्वत्वध्वंस: मूर्तद्रव्याणामेव भवति । अमूर्तद्रव्याणां तु वियोगमात्रम्
 
• इति विज्ञेयम् ( वाच ० ) ।
 
३४३
 
त्रस: - ( जीवः ) शङ्खगण्डोलकप्रभृतयश्चतुर्विधास्त्रसाः ( सर्व० सं०
 
पृ० ७०
आई०
० ) ।
 
३ संकी०
 
श्लो० २४ ) ।
 
नसर: - तन्तुवायकृतसूत्रवेष्टनविशेष: ( अमरः काण्ड ०
त्रसरेणु:- १ त्र्यणुकम् । तद्यथा जालान्तरगते भानौ सूक्ष्मं यदृश्यते रजः ।
● प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ इति (मनु० अ० ८ श्लो० १३२) ।
सच जन्यद्रव्यावयव इति ज्ञेयम् । परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः इति
 
( ब्रह्मवै ०
० पु० ) ( वाच०
) । अणु परमाणू
 
पः स्मृतः
 
स्यात्रसरेणुस्त्रयः