2023-10-25 15:37:11 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

1
 
३४१
 
न्यायकोशः ।
 
लादि । अद्भिरिध्यते प्रकाश्यत इति विग्रहो द्रष्टव्यः ( सि० च० १

पृ० ७ ) । औदर्य पार्थिवजलोभयेन्धनं तेजः । तच्च भुक्तस्य परिणाम-

हेतु: ( जाठरानल: ) । आकरजम् अनुभयेन्धनं तेजः । तच्च सुवर्ण-

त्रपुसीसरजतकांस्याद्यष्टकम् ( प्रशस्त ० ) ( तर्कसं० ) (मु० १५०

७९ ) ( तर्ककौ० १५० २) । अत्र केचिदाहुः । सुवर्ण पार्थिवम् तैजसं
 

चेति मिश्रितं वस्तु । तत्र तैजसम् अग्निसंयोगानुच्छिद्यमानद्रवत्वाधि-

सुवर्णम् न तु तैजसम् इति ( प० मा० ) । न्यायवैशेषिकनये सुवर्ण

करणम् । पार्थिवं तु अद्भुतं पीतरूपवत् इति । वस्तुतः द्रुतं पार्थिवमेव

तेजसमेव । तस्य तैजसत्वे प्रमाणमनुमानम् । तच्च सुवर्णमपार्थिवम् असति

प्रतिबन्धकेत्यन्तानलसंयोगे सत्यप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात् यन्नैवं

तन्नैवं यथा पृथिवी (घृतादि ) इति । जलमध्यस्थघृतादौ व्यभिचार-

वारणाय असति प्रतिबन्धके इति । अग्निसंयोगासमानाधिकरणद्रवत्ववति

घृतादौ व्यभिचारवारणाय अत्यन्तानलसंयोगे सति इति च विशेषणं

दत्तम् ( नील० १ पृ० ८ ) ( दि० १ पृ० ८१ ) । अनेनानुमानेना-

पार्थिवत्वसिद्धौ अत्यन्तानलसंयोगी पीतिमाश्रयः ( पृथिवी पक्षः ) द्रवत्व-

गुरुत्वात् ( हेतु: ) जलमध्यस्थवृतवत् इत्यनुमानेन तैजसत्वसिद्धिर्दृष्टव्या

नाशप्रतिबन्धकद्रवद्रव्यान्तरेण ( तेजस्वामिमतेन सुवर्णेन) संयुक्तः

(साध्य: ) अत्यन्तानलसंयोगे सत्यप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वे सति

तैजसम् असति प्रतिबन्धके अत्यन्ताग्निसंयोगेप्यनुच्छिद्यमानजन्यद्रवत्वा-

(मु० १ पृ० ८१ ) । यद्वा पीतिमगुरुत्वाश्रयः पीतरूपभिन्नरूपप्रति-

करणत्वात् यन्नैवं तन्नैवं यथा पृथिवी इति व्यतिरेकिणा तैजसत्वसिद्धिः

बन्धकद्रवद्रव्यसंयुक्तः प्रहरपर्यन्तमनलसंयोगेपि पीतरूपभिन्नरूपाना-

सुवर्णस्य तैजसले अग्नेरपत्यं प्रथमं हिरण्यम् इत्यागमसंवादोपि ज्ञेयः

श्रयत्वात् अनलसंयुक्तजलमध्यस्थितपीतपटवत् इति (वै० उ० २।१।७) ।

( न्या० सि० दी० पृ० ४० ) ( दि० १ पृ० ८१ ) । प्रकारान्तरेण

तेजश्चतुर्विधम् । किंचित् उद्भूतरूपस्पर्शम् । यथा सौरादि तेजः पिण्डित