2023-10-25 15:36:29 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३४०
 
न्यायकोशः ।
 
कुत: ( माघ० स० २ श्लो० ६२) इत्यादौ सूर्यादीनां प्रौढप्रकाशः ।

तेजोलक्षणं च तेजस्त्वमेव । तच्च चन्द्रचांमीकरसमवेतत्वे सति ज्वलन-

समवेतं सामान्यम् ( सर्व० औलू० पृ० २१८ ) । जन्योष्णस्पर्श-

समवायिकारणतावच्छेदकतया सिद्धो जातिविशेषः । जन्यतेजस्वा

तेजो० पृ० ७८) ( दि० १ पृ० ७८) । शुक्लभास्वररूप समाना

वच्छिन्नसमवायिकारणतावच्छेदकतया सिद्धो जातिविशेष: (मु० )

धिकरणद्रव्यत्वव्याप्यजातिमत्त्वम् । सांख्यास्तु शब्द स्पर्शतन्मात्रसहिता-

द्रूपतन्मात्रादुत्पन्नं शब्दस्पर्शरूपगुणं तृतीयं महाभूतं तेज इत्याहुः ।

अत्रोच्यते । तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते । अधिभूतं

सूर्यस्तत्राधिदैवतम् ॥ इति ( भा० आश्व० ) । २ सात्त्विकोधिक्षेपा

पमानादेरसहनरूपो नायकगुणविशेषस्तेज इति साहित्यशास्त्रज्ञाः ।

अत्रोच्यते । अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेप्यस

अत्रोच्यते । तेजो नाम दर्पापरनामा सत्त्वगुणविकारः प्रकाशकोन्त:सार

तत्तेजः समुदाहृतम् ॥ इति ( सा० द० ) । ३ हयवेग इत्यश्वशास्त्रज्ञाः

विशेषः । यथाह भोजराजः । तेजो निसर्गजं सत्त्वं वाजिनां स्फुरणं रजः

क्रोधस्तम इति ज्ञेयास्त्रयोगि सहजा गुणाः ॥ इति ।

अत्रोच्यते । रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोज

तदेव बलमित्युच्यते इति ( सुश्रु० ) । ५ सारः इति भिषजः

६ दीप्तिः । ७ प्रभावः । ८ पराक्रमः । ९ नवनीतं चेति काव्यज्ञा

सिद्धं तेजो द्विविधम् । नित्यम् अनित्यं च । तत्र नित्यं परमाणुलक्षणम्

अनित्यं कार्यलक्षणम् । अनित्यं त्रिविधम् । शरीरम् इन्द्रियम् विषयम

तत्र शरीरमयोनिजमेव । तच्चादित्यलोके प्रसिद्धम् । तच पार्थिवभाग

पष्टम्भाच्चोपभोगसमर्थ भवति ( प० मा० ) ( प्रशस्त ० ) ।

रूपग्राहकं चक्षुः कृष्णताराप्रवर्ति । विषयरूपं चतुर्विधम् । भी

कम् खद्योततेजआदि च । दिव्यम् अविन्धनं सौरचान्द्रविद्यद्वा

दिव्यम् औदर्यम् आकरजं च । तत्र भौमम् पार्थिवमात्रेन्धनं वहया
 
O
 

 

 
रेतः
 
इन्द्रि