2023-10-25 15:28:59 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
३३९
 
अत्र विषयत्वलक्षणं गौणमधिकरणत्वं तृतीयया बोध्यते । तेन भोगेष्व

नुरक्तः इत्येवं तत्र बोध: ( श० प्र० श्लो० ९२ पृ० १९८-१२५)

( ग० व्यु० का० ३ पृ० ९१-९८ ) ( का० व्या० पृ० ७-८) ।

११ वैशिष्टयम् । यथा वह्निमत्वेन पर्वतमनुमिनोमि इत्यादौ वह्निविधे-

यकस्वरूपं वैशिष्ट्यं तृतीयान्तार्थः । यथा वा रजतत्वेन शुक्तिं जानाती-

यादौ ज्ञाने रजतत्वादिप्रकारकत्वरूपं वैशिष्ट्यम् । घटत्वेन वह्निर्नास्तीत्यादौ

च ( सौन्दडमते) अभावे घटत्वावच्छिन्न प्रतियोगिताकत्वरूपं वैशिष्ट्य म्

तृतीयान्तार्थः इति संक्षेपः ( ग० व्यु० का० २ ख० २ पृ० ५६ ) ।

 
<
तृप्तिः - >
फलेच्छा विच्छेदः (कु० टी० ५) । यथा भोजनेन तृप्तोस्मीत्यादौ ।

यथा वा वाणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ( मनुः अ० ३ श्लो०

२७१) तस्यालमेषा क्षुधितस्य तृप्त्यै ( रघु० स० २ श्लो० ३९) इत्यादौ ।

 
<
तृषा - >
पिपासा । यथा न हन्ति मण्डूककुल तृषाकुल: ( ऋतु० ) इत्यादौ ।

तृषाकुलस्य लक्षणं च -सततं यः पिबेत्तोयं न तृप्तिमधिगच्छति । मुहुः

काङ्क्षति तोयं तु तं तृष्णार्दितमादिशेत् ॥ इति ( भावप्र० ) ।

 
<
कृष्णा>
( दोषः ) १ इदं मे न क्षीयताम् इतीच्छा ( गौ० वृ० ४ । ३ ) ।

२ अप्राप्ताभिलाषः । लोभजन्या मनोवृत्तिः । यथा लोभो जनयते

तृष्णां तृषार्ता दुःखमानुयात् (हितोप ० ) इत्यादौ ।

 
<
तेज:->
१ ( द्रव्यम् ) [क] तेजो रूपस्पर्शवत् ( ३० २।१।३ ) । तद-

चैध रूपं भास्वरम् स्पर्शश्च उष्णः तद्वत्तेजः । भास्वरशुक्लरूपवत्त्वम्

उष्णस्पर्शवत्वं च-तेजोलक्षणम् इति । ऊष्मणि भर्जनकपालस्थे तेजसि

उष्णस्पर्शवत्वेनानुमीयते ( वै० उ० २ । १ । ३ ) ( वै० वि० २ । १ । ३ ) ।

वारस्तेजसि च तेजस्त्वेन भास्वररूपमनुमीयते । तत्र तेजस्त्वं तु

(वै० २। २।४ ) । ग तेजस्त्वसामान्यवत् ( प्रशस्त ० ) ( त०

कौ० १ पृ० २) । तच्च चक्षुःशरीरसवितृ सुवर्णवह्नि विद्यदादिप्रभेदम्

(त० मा० अर्थ० पृ० २७ ) । यथा सामानाधिकरण्यं हि तेजस्तिमिरयोः
 
तेजस
 
उष्णता इति