This page has not been fully proofread.

३३७
 
न्यायकोशः ।
 
( पृ० ६ ) । इदं तु बोध्यम् । प्रकृत्यर्थस्य निरुक्तवैशिष्टयं यदि वर्तमानतया
• स्तत्र फलितार्थ: ( श० प्र० श्लो० ९२ पृ० ११९ ) ( म० प्र० १
• प्रत्याय्यते तदेदं विशेषणत्वेन व्यपदिश्यते । यदि चावर्तमानत्वेन तदो-
पलक्षणत्वेन व्यपदिश्यते । यथा शिखया परिव्राजको वर्तते इत्यादौ ।
• यथा वा गुरुणा टीका कुरुणा क्षेत्रमित्यादौ ( श० प्र० श्लो ९२ पृ०
· ११९ ) । इदं च बोध्यम् । इत्थंभूतलक्षणे ( पा० सू० २।३।२१ )
इत्यत्र लक्षणं च व्यावर्तकम् । तच्च विशेषणोपलक्षणभेदेन द्विविधम् ।
तत्रोपलक्षणं चाविद्यमानं सद्व्यावर्तकम् । जटाभिस्तापस इत्यादावविद्य-
मानजटादे: कालान्तरसंबन्धविवक्षया मतुबाद्यनवकाशादुपलक्षणवाचक-
• जटादिपदात् तृतीयैव ( ग० व्यु० का० ३ पृ० ९२ ) । केचित्तु
(शाब्दिका: ) ज्ञानज्ञाप्यत्वं तृतीयार्थः । यथा जटाभिस्तापस इत्यादी
इत्याहुः । अत्र तृतीयार्थैकदेशे ज्ञाने जटानामन्वयः । ज्ञानज्ञाप्यत्वस्य च
• तापसपदार्थैकदेशे तापसत्वेन्वयः । एवं च जटाज्ञाप्यतापसत्ववान् इत्यर्थः
( म० प्र० १ पृ० ६ ) । अत्रेदं चिन्त्यम् । जटाभिस्तापस इत्यादौ
(पा० सू० २।३।२३) इत्यनेनैव तृतीयाया उपपत्तौ इत्थंभूतलक्षणे
ज्ञानज्ञाप्यत्वस्य तृतीयार्थत्वे धूमेन वह्निमानित्यत्रेव प्रकृतस्थलेपि हेतौ
(पा० सू० २।३।२१ ) इति सूत्रस्य वैयर्थ्यं स्यात् इति । ६ हेतुत्वम् ।
यथा घनेन कुलम् दण्डेन घटः । अत्र क्रियायोगाभावात् क्रियान्वय
निरुक्त करणत्वार्थिका कर्तृकरणयोस्तृतीया (पा० सू० २/३११८ )
न तृतीया । किंतु हेतौ ( पा० २१३ । २३) इति सूत्रेणानुमा-
नार्थप्यन्वितहेतुत्वार्थिका तृतीयानुशिष्यते इति विशेष: ( का० व्या
पृ० ८) । अत्र हेतुत्वं च जनकज्ञापकोभयसाधारणं बोध्यम् । तेन
' इत्याकारो बोध: ( श० प्र० श्लो० ९२ पृ० १२१ ) । पर्वतो धूमेन
धनेन कुलमित्यादौ हेतुत्वं जनकत्वम् । तथा च धननिष्ठहेतुताककुलम्
• वह्निमानित्यादौ तु ज्ञापकत्वमेव हेतुत्वम् ( ग० व्यु० का० ३ पृ० ८७ ) ।
• घूमेन वह्निः अणुत्वेन द्रव्यत्वम् इत्यादौ ज्ञापकत्वलक्षणं गौणमेव
हेतुत्वं तृतीयार्थः । ( नवीनमते ज्ञाप्यत्वं तृतीयार्थः) । तेन धूमनिष्
 
४३ न्या० को०
 
इत्यनेन