This page has not been fully proofread.

30
 
A
 
न्यायकोशः ।
 
३३३
 
११३९ ) इति । तदर्थश्च एतैर्युक्तं तिङन्तं पूजायां विषये नानुदात्तं स्यात्
इति (पा० सू० दृ० ) । ४ पादपूरणार्थम् । दार्थक
एव । अत्रोच्यते चन्द्रालोके निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम्
( वाच० ) । ५ भेदः । ६ अवधारणम् । ७ नियोगः । ८ प्रशंसा ।
 
९ विनिग्रहः ( वाच० )।
 
तुमुन् - ( प्रत्ययः ) १ [क] प्रकृतक्रियासमान कर्तृकत्वसहिततद्विषयके-
च्छाघीनेच्छाविषयत्वम् । यथा पक्तुं व्रजतीत्यत्र तुमर्थः (ग० व्यु०
का० ४ १० ९८) (श० प्र० श्लो० ९२ पृ० १२७) । अत्र
समन्वयः पक्तुं व्रजतीत्यादौ प्रकृतक्रिया पचनम् तत्समानकर्तृकत्वम् यः
पाककर्ता स एव व्रजनकर्ता इति व्रजनेस्ति । पाकेच्छाधीनेच्छा व्रज-
नेच्छा । तद्विषयत्वं च व्रजनेस्तीति सर्व सुस्थम् । अत्र तुमुन्नन्तेन
व्रजने पाका दिसमानकर्तृकत्वसहितं पाकविषयकेच्छाधीनेच्छा विषयत्वं बो-
सूत्रेण समभिव्याहृतक्रियायां प्रकृतक्रियासमान कर्तृकत्वसहिततदिच्छा-
। तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (पा० सू० ३।३।१० ) इति
'वीनेच्छाविषयत्वरूपतदर्थकत्वेन विवक्षितायां तुमुन्ण्वुलोविधानात्
(ग० व्यु० का० ४ पृ० ९८ ) । [ख तत्प्रागभावकालीनतद्वि-
षयकेच्छा । यथा भोक्तुमागच्छतीत्यादौ । अत्र भोजनप्रागभावका-
(३२ ) । २ इच्छावान् । यथा भोक्तुं व्रजतीत्यस्य भोजनेच्छावान्
लीनभोजनविषयकेच्छावानागच्छति इति बोध: ( सि० च० ४ पृ०
व्रजति इत्यर्थः । ३ कर्ता । यथा भोक्तुमिच्छतीत्यत्र तुमुनोर्थः ।
अत्र लक्षणया कर्ता बोध्यते । कर्तृविशेषणीभूतायां कृताविच्छाया
अन्वयः । तेन भोजनकर्तारमात्मान मिच्छति इत्यर्थ: ( तर्का० ४
 
ध्यते
 
पृ० १२ ) ।
 
दिकं
 
तुरी– कुविन्दस्य काष्ठा दिनिर्मितस्तन्तुवयनसाधन विशेषः । यथा तुरीवेमा-
पटस्य निमित्तकारणम् ( त० सं० १ ) इत्यादौ ।
 
तुल्यत्वम् -१ [ क ] सादृश्यवदस्यार्थोनुसंधेयः । यथा सकामां दूषयं.