2023-10-25 14:56:48 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

कधर्माभ्युपगमे द्वितीयस्य नियतप्राप्तिरूपः । अत्रानिष्टं च द्विविधम् ।
प्रामाणिकपरित्यागः इतरपरिग्रहश्चेति ( ता० २० श्लो० ७१) ।
स चायं तर्कः पञ्चविधः । आत्माश्रयः अन्योन्याश्रयः चक्रकम् अनवस्था
तदन्यबाधितार्थप्रसङ्गश्च ( प्रमाणबाधितार्थकप्रसङ्गः ) इत्याचार्याः ।
सत्तौ स्थितौ च ग्राह्या । तत्राद्या यथा एतद्घटज्ञानं यद्येतद्धटज्ञानजन्यं
तत्र ( १) स्वापेक्षापादकोनिष्टप्रसङ्ग आत्माश्रयः । अपेक्षा च ज्ञप्तावु-
स्यात् एतद्वटज्ञानभिन्नं स्यात् इति । द्वितीया यथा घटोयं यद्येतद्धटजन्यः
स्यात् एतद्धटभिन्नः स्यात् इति । तृतीया च अयं घटो यद्येतद्घटवृत्तिः
स्यात् तथात्वेनोपलभ्येत इति । ( २ ) स्वापेक्षापेक्षितत्व निबन्धनोनिष्टप्रस-
सोन्योन्याश्रयः । यथा अयं घटो यद्येतद्घटज्ञानजन्यज्ञानविषयः स्यात्
एतद्धटमिन्न: स्यात् इति । उत्पत्तौ स्थितौ च स्वयमुदाहायम् । (३)
स्वापेक्षणीयापेक्षित सापेक्षत्व निबन्धनोनिष्टप्रसङ्गश्चक्रकम् । पूर्वोक्त एवापा-
दके जन्य पदान्तरमन्तर्भाव्योदाहार्यम् । अपेक्षा त्वत्र साक्षात्परंपरासाधा-
मूलकप्रसङ्गः । यथा घटत्वं यदि यावद्धटहेतुवृत्ति स्यात् घटजन्यवृत्ति
स्यात् इति । वृत्तिकारास्तु अनवस्था च अव्यवस्थितपरंपरारोपाधीनानि-
ष्टप्रसङ्गः । यथा यदि घटत्वम् घटजन्यत्वव्याप्यं स्यात् कपालसमवेतत्व-
व्याप्यं न स्यात् इत्याहुः (गौ० वृ० १।१।४०) । (५) उक्तचतु-
ष्कान्यः प्रसङ्गः प्रमाणबाधितार्थकप्रसङ्गः । सोपि द्विविधः । व्याप्तिप्राहकः
बहिजन्यो न स्यात् इति । द्वितीयस्तु पर्वतो यदि निर्वह्निः स्यात् निर्धूमः
परशोधकश्च । तत्राद्यो यथा धूमो यदि वह्निव्यभिचारी स्यात् तदा
स्यात् इत्यादिः ( जग० तर्कग्रन्थ० ) ( गौ० वृ० ११ १२।४० ) ।
सच तर्क एकादशविधः व्याघातः आत्माश्रयः इतरेतराश्रयः चक्र-
कत्वेन एतत्तर्कस्य परिशोधकत्वमित्यवधेयम् । अत्र प्राचीननैयायिकास्तु
घूमादेर्व्यभिचारशङ्कानिवृत्तिद्वारा विषयस्य वह्नयादेः निश्चाय-
काश्रयः अनवस्था प्रतिबन्धिकल्पना लाघवकल्पना गौरवम् उत्सर्गः
अपवाद: वैजात्यम् इत्यङ्गीचक्रुः ( सर्वे० पृ० २३९ अक्ष० ) । नव्यास्तु