This page has not been fully proofread.

३१३
 
न्यायकोशः ।
 
(ऋ० सू० २।४।१) ॐ तथान्यत्प्रतिषेधात् ॐ ( ब्रह्म० सू०
(३।२।३७ ) इत्यादौ । यथा वा यथा नदीनदाः सर्वे सागरे यान्ति
संस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ( मनुः
(६।९० ) इत्यादौ । ३ समुच्चयः । विघसो भुक्तशेषं तु यज्ञशेषं तथा-
मृतम् ( मनु: ३।२८५) ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथा परे
( मनुः ३।१३४ ) इत्यादौ । ४ अभ्युपगमः । ५ पूर्वेप्रतिवचनम् ।
६ निश्चयः ७ सत्यम् ( वाच० ) ।
 
Sli
 
तथा च-१ उक्तस्य दृढीकरणार्थः । यथा निरिन्द्रिया ह्यमन्त्राश्च स्त्रियो
नृतमिति स्थितिः । तथा च श्रुतयो बढ्यो निगीता निगमेष्वपि ॥ ( मनुः
१९११८ ) इत्यादौ । २ एवं सति इत्येतदर्थ: ( मध्व० भा० ) ।
यथा ॐ तथा चैकवाक्योपबन्धात् ॐ ( ऋ० सू० ३/४/२४)
इत्यादौ । एवं सिद्धे सतीत्यर्थः ( तत्त्वप्रकाशिका ३।४।२४ ) ।
तथापि — यद्यपीत्यनेनाक्षिप्तार्थस्य समाधानार्थः । यथा यद्यपि का नो हानिः
• परस्य द्राक्षां रासभश्चरति । असमञ्जसमिति मत्वा तथापि तरलायते
 
चेतः ॥ ( उद्भटः ) इत्यादौ ।
 
तथाहि — १ निदर्शनम् । २ प्रसिद्ध्यर्थः ( शब्दार्थचि० ) । ३ उक्तार्थ-
दृढीकरणम् । यथा ॐ छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदा-
तथा हि दर्शनम् ॐ ( ब्र० सू० ११ ११२५ ) इत्यादौ ।
 
तदन्यवाधितार्थप्रस:- (तर्कः ) आत्माश्रय अन्योन्याश्रय चक्रक अन
वस्था इत्युक्तचतुष्कान्यः प्रमाणबाधितार्थस्य प्रसङ्गः । स द्विविधः
• निश्चायकत्वेन परिशोधकत्वं बोध्यम् । तत्राद्यो यथा धूमो यदि वह्निव्य-
व्याप्तिग्राहकः विषयपरिशोधकश्च । विषयस्य व्यभिचारशङ्कानिवृत्तिद्वारा
● भिचारी स्यात्तदा वह्निजन्यो न स्यात् इति । द्वितीयस्तु पर्वतो यदि
निर्वह्निः स्यात् निर्धूमः स्यात् इत्यादिः (जग ० ) ( गौ० वृ० १/१/४० ) ।
 
४०
 
न्या० को०
 
तथैव-तद्वदेवेत्यर्थः । तत्समुच्चयावधारणम् ( शब्दार्थचि० ) । यथा
अस्ति पुत्रो वशे यस्य भार्या भर्तुस्तथैव च ( चाणक्यः ) इत्यादौ ।