This page has not been fully proofread.

३०५
 
न्यायकोशः ।
 
ज्ञानजनकत्वम् । यथा श्रुतिः स्मृतिः सदाचार: स्वस्य च प्रियमात्मनः ।
• सम्यक् संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ ( याज्ञ० १७) इत्यादौ
 
श्रुत्यादेर्धर्मज्ञापकत्वम् इत्याहुः ।
 
ज्ञापनम् -[क ज्ञानानुकूलशब्दः । [ख ज्ञानानुकूलव्यापारः । यथा
चैत्रः स्ववृत्तान्तं मैत्रं ज्ञापयतीत्यादौ । [ग] शाब्दिकास्तु ज्ञानानुकूल
 
व्यापारानुकूलव्यापारः इत्याहुः ।
 
ज्ञाप्यलम् - १ जन्यज्ञान विषयत्वम् । यथा धूमाद्वह्निमानित्यादौ वह्नयन्वय
ज्ञाप्यत्वं पञ्चम्यर्थः ( ग० अव० हेतु० ) । अयमर्थो नवीनमतानुसा
रेण । प्राचीनमते तु ज्ञापकत्वमेव पञ्चम्यर्थः इति बोध्यम् । २ ज्ञानज
 
न्यत्वमिति केचिद्वदन्ति ।
 
ज्ञेयलम् -[क] ज्ञानविषयत्वम् (मु० १ साधर्म्य० पृ० ४५ ) । यथा
• भूतलं घटवत् इति चाक्षुषप्रत्यक्षे घटस्य ज्ञेयत्वम् । यथा वा ज्ञेयं यत्त-
• गम्यं हृदि सर्वस्य धिष्ठितम् ( गीता ० १३।१७ ) इत्यादौ । [ख ]
प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ( गीता १३।१२ ) ज्ञानं ज्ञेयं ज्ञान-
भगवज्ज्ञान विषयत्वम् ( न्या० म० २ पृ० १९ ) ( त० दी० २
पृ० २३ ) । यथा घटपटादे: सर्वस्य जगतो ज्ञेयत्वम् । तच्च केवला-
न्वयि (मु० ९ साधर्म्य० पृ० ४५) । यथा वा इदं वाच्यं ज्ञेयत्वा-
दित्यादौ ( मु० २ ) ।
 
ज्येष्ठत्वम्-१ कालकृतः परत्वविशेषः ( सि० च० पृ० १८ ) । यथा
• नव्या आडु: ( दि० गु० पृ० २०९) । कालकृतो विप्रकर्ष इत्यर्थः ।
रामस्य लक्ष्मणमपेक्ष्य ज्येष्ठत्वम् । २ बहुतरसूर्यस्पन्दान्तरितजन्यत्वम् इति
नव्यमते परत्वस्य गुणान्तरत्वं नास्ति इति भावः । ३ स्मार्तास्तु
उत्कर्षः श्रेष्ठत्वं वा । यथा विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीयेतः ।
वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ ( मनुः २/१५५ )
 
इत्यादौ ज्येष्ठत्वम् इत्याहुः ।
ज्योतिर्मन्त्र:
३७० पात ० ) ।
३९ न्या० को०
 
- तारव्योमाग्निमनुयुग्ज्योतिर्मन्त्र उदाहृतः ( सर्वे० सं० पृ०
 
TARIFFE