2023-10-25 13:39:34 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
३०३
 
मात्रद्योतकं निर्विकल्पकम् सविकल्पकं च । तत्र सविकल्पकं संज्ञा-

दिद्योतकत्वादनेकधा । तथा हि संकल्पसंशयभ्रान्तिस्मृतिसादृश्यनिश्चयाः ।

ऊहोनध्यवसायश्च तथान्येनुभवा अपि ॥ इत्यादि ( वाच० ) । वैशेषि

कमतेपि ज्ञानं द्विविधम् । विद्या अविद्या च । तत्र विद्या चतुर्विधा

प्रत्यक्षलैङ्गिकस्मृत्या लक्षणा । अविद्यापि चतुर्विधा संशयविपर्यय-

स्वप्मानध्यवसायलक्षणा इति ( वै० उ० ८।१।२ ) । ७ ध्यानोपास-

नादिशब्दवाच्यं वेदनं ज्ञानम् ( सर्व० सं० पृ० १२१ रामानु० ) ।
 

 
<
ज्ञानलक्षण:->
( संनिकर्षः ) स्वविषयविषयकप्रत्यक्षजनको ज्ञानविशेषः

( स्मरणम्) । यथा सुरभित्वज्ञानम् ( भा० प० १ श्लो० ६६ )

(मु० १ पृ० १३१ ) ( त० व० ) । अत्रेदमवधेयम् । अयं

संनिकर्षः स्मॄत्यात्मकः अलौकिक प्रत्यक्षे कारणं भवति । ज्ञानलक्षण-

न्यथा (ज्ञानलक्षणसंनिकर्षास्वीकारे ) कविकाव्यमूलभूततत्तत्पदार्थसं-

संनिकर्षण तद्विषयीभूततत्तत्पदार्थानां प्रत्यक्षं मनसा जन्यते । कथम-

सर्गज्ञानम् ( त० कौ० १ पृ० ९ ) । किंच ज्ञानलक्षणसंनिकर्षा-

स्वीकारे यत्र सौरभत्वजात्युपस्थित्यनन्तरं सुरभिर्गन्धः इत्
 

चन्दनम् इत्याकारकं सौरभत्वप्रकारेण चन्दनस्य भ्रमात्मकं चाक्षुषम्

तत्र सौरभत्वजातेभनं न स्यात् । नहि तत्र सुरभिगन्धस्य भानसंभवः ।
 

येन सुरभिगन्धभासनेन सामान्यलक्षणायास्तद्धर्मप्रकारकतदाश्रयप्रत्यक्षं
 

प्रत्येव हेतुतया सौरभत्वप्रत्यासत्तेः कार्यतावच्छेदकतयैव सौरभत्वजा-

तेर्भानं भविष्यति इति संभावनीयम् ( जग० ) ( वाच० ) । तादृशं

स्मरणं च यद्विषयकम् तद्विषयकसाक्षात्कारजनिका प्रत्यासत्तिः । सुरभि

( म० प्र० १ पृ० २२ ) । अयं च यद्विषयकं ज्ञानं जननीयम्

चन्दनम् इति चाक्षुषे सौरभस्य सौरभत्वस्य वा भानं ज्ञानप्रत्यासत्यैव
 

भानमिति ( दीधि ०
 
) । ज्ञानलक्षणसंनिकर्षेण ( स्मरणेन ) पूर्वज्ञातव-

स्तुनः अलौकिक प्रत्यक्षं जन्यते । यथा सुरभि चन्दनम् इति चाक्षुषे

चन्दनस्य चक्षुर्ग्राह्यत्वेपि सौरभस्य तदग्राह्यत्वात् पूर्वज्ञातस्य सौरभस्या-