न्यायकोशः /355
This page has not been fully proofread.
३०१
न्यायकोशः ।
( ग० व्यु० का० २ ख० १ पृ० ५१ ) । एवं च घटनिष्ठविषय-
● तानिरूपित विषयिताश्रयीभूतं यज्ज्ञानं तदाश्रयश्चैत्रः इति शाब्दबोधः ।
घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयत्वमेव । विषयत्वादौ च
द्वितीयाया लक्षणैव न तु शक्तिः इति सांप्रदायिका आहुः । चैत्रेण
घटो ज्ञायते इत्यत्र कर्माख्यातेन घटादौ धात्वर्थज्ञान निरूपितं विषयत्वं
बोध्यते ( ग० व्यु० का० २ पृ० ५१ ) । तथा च चैत्रेणेति
• तृतीयाया अर्थः चैत्रान्वितं समवेतत्वम् । तस्य च धात्वर्थे ज्ञानेन्वयः ।
तस्य ज्ञानस्य चात्मनेपदार्थविषयत्वेन्वयः । तस्य तादृशविषयत्वस्य
घटेन्वयः । एवं च चैत्रसमवेतज्ञानविषयो घटः इति शाब्दबोधः ।
[ख] शाब्दिकाश्च पतन्जलि प्रभृतयः ज्ञानानुकूलव्यापारः ज्ञाधात्वर्थः ।
( उ० म० धात्वर्थ० पृ० ६ ) ० सा० ५० धात्व० पृ० ६३ ) ।
॥ यथा देवदत्तो घटं जानातीत्यादौ जानात्यर्थः इत्याहुः ( वै० साo
धात्व० पृ० ४६ ) । अत्र विषयतया ज्ञानं फलम् । आत्ममनः संयोगो
व्यापारः । अत एव मनो जानाति इत्युपपद्यते ( ल० म० धात्वर्थ ०
पृ० ६ ) । आत्ममनः संयोग इत्यत्रात्मान्तःकरणम् । मनोपि तद्वृत्ति-
विशेषरूपम् ( ल० म० धात्वर्थ० पृ० ६ ) । अत्र देवदत्ता भिन्ना-
श्रयको ज्ञानाद्यनुकूलो वर्तमानो व्यापारः इति बोध: ( वै० सा०
●णभङ्गादिफलानुकूलव्यापारः । यथा घटं जानातीत्यादौ धात्वर्थः इत्या-
वै०
शशङ्किरे (वै०
धात्वर्थ ०
० पृ० ६२ ) । अतीतानागतादिपरोक्ष-
स्थलेपि ज्ञानजन्यस्य तादृशफलस्यावश्यकत्वम् । अत एव ज्ञादिधातोः
सकर्मकत्वमुपपद्यते । ज्ञानस्यैव फलत्वाङ्गीकारे तदनाश्रयत्वाद्धटादेः कर्म-
• त्वानुपपत्तिः इति भावः (व० सा० धात्वर्थ० पृ० ६२ ) । सच
व्यापारोर्थप्रकाशरूपः । अत्रेदं ज्ञेयम् । ज्ञाकृञादिधातुषु सकर्मकत्व-
व्यवहारो भाक्त इति नैयायिकसिद्धान्तः ( वै० सा० धात्व० १०६० ) ।
ज्ञातता -१ ज्ञानविषयता ( त० मा० प्रमाण० पृ० २२ ) । अत्रेदम-
वधेयम् । ज्ञातता ज्ञानविषयत्वम् । तच्च स्वरूपसंबन्धरूपमेव । यथा ज्ञातो
सा०