2023-10-25 13:29:00 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२९९
 
न्यायकोशः ।
 
मन्त्रार्णसंख्यया तद्धि जीवनं संप्रचक्षते ॥ ( सर्व० सं० पृ० ३६९
 

पातञ्ज ० ) ।
 

 
<
जीवनयोनियत्तः - >
( प्रयत्नः ) [क] साहजिक प्राणसंचार विषयकः

( दि० गु० ) । स च प्राणसंचार कारणम् यावज्जीवमनुवर्तते । स चाती-

न्द्रियः शरीरे प्राणसंचारानुमेयश्च इति बोध्यम् ( वै० उ०५/२/१६ )

( भा० प० श्लो० १५३ ) । तथाहि शरीरे अधिकश्वासादिः

सुपुष्यवस्थायां जायमानस्यापि यत्नसाध्यत्वानुमानात् प्रत्यक्षप्रयत्नबाधा-

प्राणसंचारो यत्नसाध्यतया दृष्टः । इत्थं च प्राणसंचारस्य सर्वस्य

चातीन्द्रिययत्नसिद्धिः । स च प्राणसंचारहेतुत्वेनानुमीयमान एव जीव-

नयोनियनः इति ज्ञेयम् ( मु० गु० पृ० २३१ ) । अयं भावः । दृष्टो

त्कर्षः । इत्थं च एकत्र यत्नसाध्यत्वस्यानुभविकत्वेन तद्दृष्टान्तेन प्राणसं-

धावतः पुरुषस्य प्रत्यक्षप्रयत्नोत्कर्षेणाधिकश्वासादिरूपप्राणसंचारो-

चारत्यावच्छेदेन सर्वत्र भोक्तयत्नजन्यत्वानुमानम् इति ( दि० गु० पृ०

२३२ ) । एतदुक्तं भवति । धावतः प्रयत्नोत्कर्षेण श्वासक्रियोत्कर्षदर्शनात्

णभावः असति बाधके तत्सामान्ययोरपि इति न्यायाज्जीवनयोनियत्नसिद्धिः

श्वासक्रियात्वावच्छिन्ने एव यत्नजन्यत्वनिश्चयः । यद्विशेषयोः कार्यकार-
( त० प्र० ख०
 

नाङ्गीचक्रुः । अयं भावः । प्राणक्रियाया अदृष्ट विशेष प्रयोज्यात्ममनोयोगरू-

४ पृ० ९७ ) । नव्यनैयायिकास्तु जीवनयोनियत
( त० प्र० ख०
पाजीवनात् तत्प्रयोजकादृष्टाद्वा संभवात् उक्तानुमानस्याप्रयोजकत्वम् ।

अन्यथा एकत्र यत्ने ज्ञानजन्यत्वदृष्टान्तेन जन्ययत्नत्वावच्छेदेन ज्ञानज-

न्यत्वकल्पनापत्त्या सुषुप्तौ ज्ञानादेरप्यतीन्द्रियस्य कल्पनापत्तिः । एवं

[ख] जीवनादृष्टजन्यो गुणः ( सि० च० पृ० ३५ ) । [ग]

च जीवनयोनियत्नस्वीकारे मानाभावः इति ( दि० गु० पृ० २३२ ) ।

श्वासप्रश्वासहेतुर्यत्नः ( त० कौ० गु० पृ० १९ ) ( सि० च०

पृ० ३५ ) । सुषुप्तिदशायामपि आत्मनो येन प्रयत्नेन प्राणापानयोरू-

अर्ध्वाधोगती भवतः स प्रयत्नो जीवनयोनिसंज्ञको भवतीत्यर्थः ( वै० उ०
 
३ । २ । ४ ) ।