2023-10-25 13:14:15 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
संयोगे त्वाद्यत्वमुक्तमेव । [च ] जातिविशिष्टाभिर्देहेन्द्रियमनोहंकार-

बुद्धिवेदनाभिः पुरुषस्याभिसंबन्धः इति सांख्या आहुः (सांख्य० कौ० ) ।

[छ ] स्वादृष्टोपनिबद्धशरीरग्रहणमिति केचित् ( वाच० ) । [ज ]

निकाय विशिष्टाभिः शरीरेन्द्रिय बुद्धिवेद नाभिः संबन्धो जन्म (न्या० वा० ) ।

 
<
जन्यत्वम् - >
यदधीनो यस्य समयसंबन्धः यद्व्यतिरेक प्रयुक्तो यद्व्यतिरेकश्व

तत्त्वम् ( मू० म० १ ) । यथा जन्यानां जनकः काल : (भा०प०

श्लो० ४६ ) इत्यादौ घटपटादीनां मृत्तन्त्वादिजन्यत्वम् । अधिकं तु

कार्यशब्दव्याख्यानावसरे संपादितं तत्र द्रष्टव्यम् ।

 
<
जय: - >
१ ग्रहणावच्छिन्नपराभवः । यथा शत्रुं शतानि जयतीत्यत्र जयत्यर्थः ।

पराभवश्च तिरस्कारः । अत्र शतस्य ग्रहणानुकूलो यः शत्रुकर्मकः परा-

भवः तत्कर्ता इत्येवं बोध: ( श० प्र० श्लो० ७३ पृ० ९८ ) । २ परा-

पेक्षयोत्कर्षलाभः । ३ वशीकरणम् । यथा इन्द्रियजय इत्यादौ ( वाच० ) ।
 

 
<
जयनम् - >
जयशब्दवदस्यार्थोनुसंधेयः ।
 
www.
 

 
<
जयन्ती - >
१ नन्दा मार्गशिरे शुक्ला सप्तम्यानन्ददायिनी । जयन्ती नाम

२ श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप । रोहिणी यदि लभ्येत

सा प्रोक्ता पुण्या पापहरा स्मृता ॥ ( पु० वि० पृ० १०४ ) ।

जयन्ती नाम सा तिथि: ॥ ( पु० चि० पृ० ११९ ) ।

 
<
जयपत्रकम् - >
( हुकुमनामा इति प्र० ) यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तर-

क्रियम् । सावधारणकं चैव जयपत्रकमिष्यते ॥ ( मिताक्षरा अ० २
 

श्लो० ९१ ) ।
 

 
<
जरायु:- >
[[क] गर्भवेष्टनचर्मपुटकम् ( दि० १ पृथिवी० पृ० ७०) ।

इत्यादौ । जरायुजभेदाच मनुना ( अ० १ श्लो० ४३ ) दर्शिता यथा

यथा जरायुजं मानुषादीनां शरीरम् ( मु० १ पृथिवी० पृ० ७० )

पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनु-

तलक्षणं तु या तु चर्माकृतिः सूक्ष्मा जरायुः सा निगद्यते इति ।

जरायुजाः ॥ इति । तत्र व्यालाः सिंहाद्याः ( कुल्लू० ) ।

शुक्रशोणितयोर्योगस्तस्मिन्संजायते यतः । तत्र गर्भो भवेद्यस्मात्तेन प्रोक्तो
 
व्याश्च
 
२८७