This page has not been fully proofread.

न्यायकोशः ।
 
(गौ० ११२।११ ) । प्रकारान्तरेण छलं त्रिविधम् अभिधानतात्पर्यो
पचारवृत्तिव्यत्यय मेदात् इति ( सर्व० सं० पृ० २४० अक्ष० ) ।
[ङ ] अनिष्टमर्थमारोप्य तन्निषेधश्छलं मतम् इति ( ता० र०
 
लो० ९४ ) ।
 
छिद्रम-गर्तवदस्यार्थोनुसंधेयः ( न्या० वा० १११।१४ पृ० ८१ ) ।
छेदनम् – आरम्भकसंयोग विरोधिविभागावच्छिन्नक्रिया । यथा तृणं छिन-
तीत्यादौ छिदेरर्थः । अत्र छिद्यर्थनिविष्टे च संयोगे विभागे वा स्वावयव-
• वृत्तित्वसंबन्धेन तृणादेरन्वयः ( श० प्र० श्लो० ७२ पृ० ९४ ) ।
यथा वा करपाददतो भङ्गे छेदने कर्णनासयोः ( याज्ञ० अ० २
लो० २२४ ) अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ( कुमार
स० २ श्लो० ४१ ) इत्यादौ ( वाच० ) ।
 
२८५
 

 
जगत् – १ स्थावरजङ्गमात्मकं सर्वपदार्थजातम् । यथा यच्च किंचिज्जगत्सर्वे
 
दृश्यते श्रूयतेपि
 
व्याप्य नारायणः स्थितः
 
वा । अन्तर्बहिश्च तत्सर्वं
 
स० २
 
( नारा० उप० ) यदा स देवो जागर्ति तदेदं चेष्टते जगत् ( मनुः
अ० १ लो० ५२) जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ।
जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥ ( कुमार •
लक्षणं च प्रमेयत्वम् अभिधेयत्वं वा । तच्चेश्वरीय प्रमाविषयत्वम् ईश्वरीया-
०९) इत्यादौ चराचरं सत्यभूतं सर्वे विश्वं जगद्भवति । जगतो
 
भिधाविषयत्वं
 
च ग्राह्यम् । तेन जीवानामसर्वज्ञत्वेन ऐहिकामुष्मिक-
निखिलपदार्थानामज्ञानेपि नाव्याप्तिः । २ वायुरिति पौराणिकाः ।
 
३ लोक इति काव्यज्ञा वदन्ति ( वाच० ) ।
 
• कूटवत्त्वम् । तेन सुषुप्तिकाले ज्ञानादिसामान्याभावसत्त्वेपि अव्याप्यवृत्ति-
ताकमेदस्य चात्मनि सत्त्वेपि न दोषः (ल० व० ) । यथा वृक्षपाषाणा-
धर्मावच्छिन्न प्रतियोगिताकमेदस्या व्याप्यवृत्तित्वेन ज्ञानाद्यवच्छिन्न प्रतियोगि