न्यायकोशः /333
This page has been fully proofread once and needs a second look.
तथा हि काचादिदोषदूषितलोचनस्य पुरोवर्तिद्रव्यसंयोगादिदमाकारा
चाकचक्याकारा च काचिदन्तः करणवृत्तिरुदेति इति चाकचक्यसंदर्शन-
समुहुद्धरजतत्व संस्कारसध्रीचीना इति च ( वेदान्तप० ) ( वाच० ) ।
चाकचिक्यम् –
<चाकचिक्यम्>
चाकचक्यशब्दवदस्यार्थोनुसंधेयः ।
<चाक्षुपम्
१ चक्षुर्जन्यं प्रत्यक्षम् । यथा द्रव्यचाक्षुषं प्रति चक्षुःसंयोगः
कारणम् इत्यादौ । २ चक्षुर्ग्राह्यम् । यथा रूपादि ।
<चारित्रम्
सर्वथावद्ययोगानां त्यागश्चारित्रमुच्यते ( सर्व० सं० पृ० ६५
-
आ
<चार्वाकः
(नास्तिकः ) बृहस्पतिशिष्यो लोकायताख्यः । अत्र व्युत्पत्तिः ।
चारु: लोकसंमतः वाकः वाक्यम् यस्य सः इति द्रष्टव्या ( वाच० ) ।
चार्वाकश्च प्रत्यक्षैक प्रमाणवादी परमेश्वरस्वर्ग नरकपुण्यपापादिकंग-
॥ तन्मतं तु सर्वदर्शनसंग्रहादौ सायणादिना किंचित् किंचित्
•
प्रदर्शितम् । तस्मादेव तत् ज्ञातव्यम् ।
२७९
<चिकीर्षा
[क] कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयिणीच्छा ।
यथा पार्क कृत्या साधयामि इत्याकारिकेच्छा ( चि० ४) (मु० गु०
पृ० २२१ ) । यथा वा पाकः कृत्या साध्यताम् इत्याकारिकेच्छा
( वाच० ) । अत्रेदमवधेयम् । कृतिसाध्यताज्ञानम् इष्टसाधनताज्ञानं च
•
चिकीर्षो प्रति कारणम् । कृतिरत्र प्रवृत्तिरूपा ग्राह्या । नातो जीवनयोनि-
•
यत्नसाध्यस्वाभाविक प्राणवायुसंचारे चिकीर्षा ( म० प्र० ४ पृ० ६१) ।
विषसंपृक्तान्नभोजने न चिकीर्षा ( मु० गु० पृ० २२१ ) । अन्ये तु
बलवद्विष्टसाधनताज्ञानं तु चिकीर्षायां प्रतिबन्धकम् इति । अतो मधु-
बलवद्वेषः प्रतिबन्धकः इत्याहुः । केचित्तु बलवदनिष्टासाधनत्वज्ञानमपि
( मु० गु० ) । गुरवस्तु कृतिसाध्यताज्ञानमात्रं चिकीर्षां प्रति कारणम्
इसाइ (मु० गु० पृ० २२२ ) । नव्याश्चापि चिकीर्षो प्रति कृति-