2023-10-25 06:29:34 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२७५
 
रूपम् । तथा च समभिव्याहृतक्रियादिगतमानुषङ्गिकत्व व्याप्यत्व मन्वाचय-

चकारार्थः ( वाच० ) । यथा भिक्षामट गां चानयेति । अत्र हि

अदर्शनाद्गामनानयन्नपि भिक्षामटत्येव । अनस्तु मिक्षां न गामानयति ।

तथा अटन्नपि नान्विष्य गामानयति ( शब्दकौ० २।२।२९ ) ।

मिलितानामन्वय इतरेतरयोगः । तथा च मिलितानाम् परस्परापेक्षाणा-

मुद्भूतावयवभेदकसमूहरूपाणाम् अन्वयः एकधर्मावच्छिन्नेनान्वयः इति

निष्कृष्टार्थः (वाच० ) । समूहः समाहारः । अत्र इतरेतरसमाहारयोरयं

विशेषो ज्ञेयः । उद्भूतावयवभेदसमूहस्य प्रतीत्या प्रत्येकावयववृत्तिधर्म

एवेतरेतरयोगे प्रवृत्तिनिमित्तम् । समाहारे तु द्वित्वत्रित्वादिनैव भानात्

समूहत्वमेव प्रवृत्तिनिमित्तम् । एवं च उभयत्रैव समूहस्य बोधः इति ।

अन्योपि विशेषः । इतरेतरयोगे साहित्यं विशेषणम् । द्रव्यं विशेष्यम् ।

समाहारे तु साहित्यं प्रधानम् । द्रव्यं विशेषणम् इति ( वाच० ) ।

५ तुल्ययोगित्वम् । तथाहि तुल्ययोगितालंकारस्य चेन द्योतनात्

तदर्थकता । यथा संकुचन्ति सरोजानि स्वैरिणीवदनानि च ( चन्द्रालोकः ) ।

एवम् दीपकालंकारद्योतकतापि । चकारद्वयप्रयोगे कचिदविलम्बयोगितायाः

कचित् तुल्यप्रधानस्य चावबोधनम् । यथा इतीरिता पत्ररथेन तेन

हीणा च हृष्टा च बभाण भैमी ( नैष० ) कला च सा कान्तिमती

कलामृतस्त्वमस्य लोकस्य च नेत्रकौमुदी (कुमार०) इत्यादौ (वाच ० ) ।
 

६ विनियोगः ( वाच० ) ।
 
चक्रकम् –

 
<चक्रकम्>
१ ( तर्क: ) [ क ] तदपेक्षापेक्ष्यपेक्षितत्वनिबन्धनोनिष्ट-

प्रसङ्गः । इदं च उत्पत्तिस्थितिज्ञप्तिद्वारा त्रिविधम् । तत्प्रपञ्चस्तु

आत्माश्रयवदनुसंधेयः । अत्रेदं ज्ञेयम् । चतुष्कक्षादावपि स्वस्य स्वापेक्षा-

पेक्ष्यपेक्षितत्वसत्त्वान्नाधिक्यम् ( गौ० वृ० ११ १/४०) । अपेक्षायाः

साक्षात्परंपरा साधारण्या ग्राह्यत्वात् । [ख ] स्वापेक्षणीयापेक्षितसापेक्षत्व-

निबन्धनः प्रसङ्गः । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ( जाग० तर्क ० ) ।

तत्र ज्ञप्तौ यथा एतद्घटज्ञानं यद्येतद्घटज्ञानजन्यज्ञानजन्यज्ञानजन्यं स्यात्

तदा एतद्धटज्ञानजन्यज्ञानजन्यज्ञानभिन्नं स्यात् इति । उत्पत्तौ यथा