2023-10-25 06:11:23 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२७३
 
न्यायकोशः ।
 
घ.
 
घट -
<घट>
( धातुः ) १ चेष्टा । यथा अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः

(भट्टिः) । २ हिंसा। ३ युतिः । यथा कमलवनोद्घाटनम् ।

४ शब्दकरणम् । यथा घण्टयति घण्टा निघण्टुः इत्यादौ ( वाच० ) ।
 

 

 
<
घट:>
१ कम्बुग्रीवादिमान् पृथुबुनोदराकृतियुक्तः पदार्थविशेषः । यथा

घटं प्रति दण्ड: कारणम् इत्यादौ घटः । २ कुम्भकाख्यः प्राणायाम-

विशेष इति तान्त्रिकाः । ३ द्रोणविंशतिपरिमाणम् इति शाब्दिका

आहुः । ४ कुम्भराशिरिति मौहूर्तिकाः । ५ हस्तिकुम्भस्थल
 

काव्यज्ञा आहुः ( वाच० ) ।
 
घटकत्वम्

 
<घटकत्वम्>
१ तद्विषयताव्यापक विषयतावत्वम् । स्वभिन्नत्वस्वव्यापकत्व
- १ तद्विषयताव्यापक विषयतावत्वम् । स्वभिन्नत्वस्वव्यापकत्व-

एतदुभयसंबन्धेन विषयताविशिष्टविषयतावत्त्वमित्यर्थः । यथा वह्नयभाव-

ज्ञानीयविषयताव्यापकत्वस्य वह्निविषयतायां सत्त्वेन वहेयभावघटक-

त्वम् । २ अवच्छेदकत्वम् । यथा साध्याभावाधिकरणत्वं च साध्यवत्ता-

ग्रहविरोधिताघटकसंबन्धेन विवक्षणीयम् साध्याभावप्रतियोगित्वं च

साभ्यताघटकसंबन्धेन विवक्षणीयम् इत्यादौ घटकत्वम् । ३ योजकत्वम्

इति तान्त्रिका आहुः । तद्भेदाचोक्ताः । धावको भावकश्चैव योजक-

श्रांशकस्तथा । दूषकः स्तावकश्चैव षडेते घटकाः स्मृताः ॥ इति ।
 

 
<
घटितत्वम् - >
तद्विषयताव्याप्यविषयतावत्त्वम् । यथा वह्नयभावविषयताय

न्तराघटितत्वम् विशिष्टद्वयाघटितत्वम् प्रतियोगिवैयधिकरण्यघटितत्वम्

वह्निविषयताव्याप्यत्वेन वह्नयभावस्य वह्निघटितत्वम् । यथा वा विशिष्टा-

इत्यादौ घटितत्वम् ।
 

 
<
घोषः>
गोमहिष्यादियुक्तो देश: ( कैय० ७ । ३ । १४ ) ।

घ्रा - (धातुः ) [क] गन्धविषयकलौकिकप्रत्यक्षम् । यथा पुष्पं जिन-

तीत्यादौ प्राधात्वर्थः । अत्र द्वितीयार्थ आधेयत्वम् । व्युत्पत्तिवैचित्र्येण

तस्य प्राधात्वर्यैकदेशे गन्धेन्वयः । एवं च पुष्पवृत्तिगन्धलौकिक प्रत्यक्षा-

३५ न्या० को०