न्यायकोशः /327
This page has not been fully proofread.
२७३
न्यायकोशः ।
घ.
घट - ( धातुः ) १ चेष्टा । यथा अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः
(भट्टिः) । २ हिंसा। ३ युतिः । यथा कमलवनोद्घाटनम् ।
४ शब्दकरणम् । यथा घण्टयति घण्टा निघण्टुः इत्यादौ ( वाच० ) ।
स
घट: – १ कम्बुग्रीवादिमान् पृथुबुनोदराकृतियुक्तः पदार्थविशेषः । यथा
घटं प्रति दण्ड: कारणम् इत्यादौ घटः । २ कुम्भकाख्यः प्राणायाम-
विशेष इति तान्त्रिकाः । ३ द्रोणविंशतिपरिमाणम् इति शाब्दिका
आहुः । ४ कुम्भराशिरिति मौहूर्तिकाः । ५ हस्तिकुम्भस्थल
काव्यज्ञा आहुः ( वाच० ) ।
घटकत्वम् - १ तद्विषयताव्यापक विषयतावत्वम् । स्वभिन्नत्वस्वव्यापकत्व-
एतदुभयसंबन्धेन विषयताविशिष्टविषयतावत्त्वमित्यर्थः । यथा वह्नयभाव-
ज्ञानीयविषयताव्यापकत्वस्य वह्निविषयतायां सत्त्वेन वहेयभावघटक-
त्वम् । २ अवच्छेदकत्वम् । यथा साध्याभावाधिकरणत्वं च साध्यवत्ता-
ग्रहविरोधिताघटकसंबन्धेन विवक्षणीयम् साध्याभावप्रतियोगित्वं च
साभ्यताघटकसंबन्धेन विवक्षणीयम् इत्यादौ घटकत्वम् । ३ योजकत्वम्
इति तान्त्रिका आहुः । तद्भेदाचोक्ताः । धावको भावकश्चैव योजक-
श्रांशकस्तथा । दूषकः स्तावकश्चैव षडेते घटकाः स्मृताः ॥ इति ।
घटितत्वम् - तद्विषयताव्याप्यविषयतावत्त्वम् । यथा वह्नयभावविषयताय
•न्तराघटितत्वम् विशिष्टद्वयाघटितत्वम् प्रतियोगिवैयधिकरण्यघटितत्वम्
वह्निविषयताव्याप्यत्वेन वह्नयभावस्य वह्निघटितत्वम् । यथा वा विशिष्टा-
इत्यादौ घटितत्वम् ।
घोषः — गोमहिष्यादियुक्तो देश: ( कैय० ७ । ३ । १४ ) ।
घ्रा - (धातुः ) [क] गन्धविषयकलौकिकप्रत्यक्षम् । यथा पुष्पं जिन-
तीत्यादौ प्राधात्वर्थः । अत्र द्वितीयार्थ आधेयत्वम् । व्युत्पत्तिवैचित्र्येण
• तस्य प्राधात्वर्यैकदेशे गन्धेन्वयः । एवं च पुष्पवृत्तिगन्धलौकिक प्रत्यक्षा-
३५ न्या० को०