2023-10-23 16:17:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२६७
 
न्वयबाधात् यजमानस्य कुशमुष्टिधारणरूपाङ्गवादरूपत्वात् गुणवादः इति

बोध्यम् । गुणवादशब्दव्युत्पत्तिस्तु गुणस्य अङ्गस्य वादः इति द्रष्टव्या ।

 
<
गुणविधिः>
(विधिः ) प्राप्तस्याप्राप्तस्य वा कर्मणोङ्गद्रव्यविधानम् । तत्र

प्रातस्य यथा दना जुहोति इत्यादौ दधिद्रव्यविधानम् । गुणविधौ च

धात्वर्थस्य साध्यत्वेनैवान्वयः । न तु साधनत्वेनाप्यन्वयः । अत्र होमस्य

अग्निहोत्रं जुहुयात् इत्यनेन प्राप्तत्वाद्धोमोद्देशेन दधिमात्रविधानम् । दना

होमं भावयेत् इति वाक्यार्थः ( लौ० भा० ) । अग्निहोत्रं जुहोति

स्वर्गकामः इति विधिना स्वर्गसाधनत्वेन प्राप्तस्याग्निहोत्रादेरङ्गम् दना

जुहोति इति वाक्येन दधिद्रव्यं विदधद्गुणविधिः ( वाच० ) । अप्राप्तस्य

यथा सोमेन यजेत इत्यादौ सोमविशिष्टयागविधानम् । अत्र कर्म

अङ्गं च मानान्तरेणाप्राप्तम् इति उभयविधानम् । यथा हि तस्

अङ्गरूपगुणविधानेन गुणविधित्वम् तथा कर्मस्वरूपप्रापकत्वेन उत्पत्ति-
• विधित्वं चेत्युभयरूपत्वम् (वाच० ) । अत्र सोमद्रव्यं यागश्चेत्युभयम्

अप्राप्तम् इति सोमविशिष्टयागं विधत्ते । सोमपदे मत्वर्थलक्षणया सोम-

वता यागेन इष्टं भावयेत् इति वाक्यार्थबोध: ( लौ० मा० ) ।

 
<
गुणान्तरापत्तिः>
धर्मिणि सत्येव धर्मान्तरापत्तिः । यथा शाब्दिकनये

उदात्तत्वगुणमात्रनिवृत्त्या अनुदात्तत्वम् ( गौ० वृ० २/२/५६ ) ।
गुप् -

 
<गुप्>
( धातुः ) १ रक्षणम् । यथा आत्मानं सततं गोपायीत ( श्रुतिः )

इत्यादौ । २ गर्हापूर्वक निवृत्तिः । यथा पापाज्जुगुप्सत इत्यादौ धा-

त्वर्थः । अत्र सुपो विषयित्वमर्थः । तच्च गनिवृत्योः क्रमेणान्वयि ।

तथा च पापविषयकर्हाप्रयुक्तपापगोचरनिवृत्तिमान् इत्याकारको बोधः

( श० प्र० श्लो० ६८ पृ० ८१) । ३ भासनम् । ४ व्याकुलत्वम् ।

यथा गोपायति क्षितिमिमां चतुरब्धिसीमां पापाज्जुगुप्सत उदारमतिः

सदैव । वित्तं न गोपयति यस्तु वनीयकेभ्यो धीरो न गुप्यति महत्यपि

कार्यजाते ॥ (कविरहस्ये ) इति चतुर्णी गुप्धात्वर्थानामुदाहरणानि ।

 
<
गुप्तिः - >
संचार कारणाद्योगादात्मनो गोपनम् (सर्व० सं० पृ० ७८ आर्ह ० ) ।
 
Teh