This page has not been fully proofread.

न्यायकोशः ।
 
२६७
 
न्वयबाधात् यजमानस्य कुशमुष्टिधारणरूपाङ्गवादरूपत्वात् गुणवादः इति
बोध्यम् । गुणवादशब्दव्युत्पत्तिस्तु गुणस्य अङ्गस्य वादः इति द्रष्टव्या ।
गुणविधिः—(विधिः ) प्राप्तस्याप्राप्तस्य वा कर्मणोङ्गद्रव्यविधानम् । तत्र
प्रातस्य यथा दना जुहोति इत्यादौ दधिद्रव्यविधानम् । गुणविधौ च
धात्वर्थस्य साध्यत्वेनैवान्वयः । न तु साधनत्वेनाप्यन्वयः । अत्र होमस्य
अग्निहोत्रं जुहुयात् इत्यनेन प्राप्तत्वाद्धोमोद्देशेन दधिमात्रविधानम् । दना
होमं भावयेत् इति वाक्यार्थः ( लौ० भा० ) । अग्निहोत्रं जुहोति
स्वर्गकामः इति विधिना स्वर्गसाधनत्वेन प्राप्तस्याग्निहोत्रादेरङ्गम् दना
जुहोति इति वाक्येन दधिद्रव्यं विदधद्गुणविधिः ( वाच० ) । अप्राप्तस्य
यथा सोमेन यजेत इत्यादौ सोमविशिष्टयागविधानम् । अत्र कर्म
अङ्गं च मानान्तरेणाप्राप्तम् इति उभयविधानम् । यथा हि तस्
अङ्गरूपगुणविधानेन गुणविधित्वम् तथा कर्मस्वरूपप्रापकत्वेन उत्पत्ति-
• विधित्वं चेत्युभयरूपत्वम् (वाच० ) । अत्र सोमद्रव्यं यागश्चेत्युभयम्
अप्राप्तम् इति सोमविशिष्टयागं विधत्ते । सोमपदे मत्वर्थलक्षणया सोम-
वता यागेन इष्टं भावयेत् इति वाक्यार्थबोध: ( लौ० मा० ) ।
गुणान्तरापत्तिः– धर्मिणि सत्येव धर्मान्तरापत्तिः । यथा शाब्दिकनये
उदात्तत्वगुणमात्रनिवृत्त्या अनुदात्तत्वम् ( गौ० वृ० २/२/५६ ) ।
गुप् - ( धातुः ) १ रक्षणम् । यथा आत्मानं सततं गोपायीत ( श्रुतिः )
इत्यादौ । २ गर्हापूर्वक निवृत्तिः । यथा पापाज्जुगुप्सत इत्यादौ धा-
त्वर्थः । अत्र सुपो विषयित्वमर्थः । तच्च गनिवृत्योः क्रमेणान्वयि ।
तथा च पापविषयकर्हाप्रयुक्तपापगोचरनिवृत्तिमान् इत्याकारको बोधः
( श० प्र० श्लो० ६८ पृ० ८१) । ३ भासनम् । ४ व्याकुलत्वम् ।
यथा गोपायति क्षितिमिमां चतुरब्धिसीमां पापाज्जुगुप्सत उदारमतिः
सदैव । वित्तं न गोपयति यस्तु वनीयकेभ्यो धीरो न गुप्यति महत्यपि
कार्यजाते ॥ (कविरहस्ये ) इति चतुर्णी गुप्धात्वर्थानामुदाहरणानि ।
गुप्तिः - संचार कारणाद्योगादात्मनो गोपनम् (सर्व० सं० पृ० ७८ आर्ह ० ) ।
 
Teh