न्यायकोशः /32
This page has not been fully proofread.
ग्रन्थकूचरितं नाम द्वितीय उपोद्वातः ।
व्याख्यान दीघितेष्टीकां संगतिनाम्नीं लक्षसंख्यकाम् B बौद्धाधिकारव्याख्याम्,
C दीघितेश्च व्याख्यां गदाधरीम् D द्विपञ्चाशत्संख्यकान् (५२) वादार्थश्च
चकार इति ।
( २३ ) अथ भगीरथठकुरो मेघठक्कुरापरनामा मैथिल: पक्षधर-
मिश्राणां शिष्यः जयदेवपण्डितकवेवशाब्दे जातः । भगीरथठकुरस्य महा-
देवाख्यः थेघठकुरापरनामा सोदर आसीत् । भगीरथठक्कुरो वर्धमानो-
पाध्यायकृतानां प्रकाशग्रन्थानाम् ( किरणावलीप्रकाशादीनाम् ) व्याख्यान -
रूपान् द्रव्यप्रकाशिका-गुणप्रकाशिकादिनाम्नो ग्रन्थान् ( कुसुमाञ्जलिप्रका-
शप्रकाशिकान्यायलीलावतीप्रकाशप्रकाशिकादीन् ) चकार इति ।
( २४ ) रुचिदैत्तः ( भाक्तनामा ) पक्षधर मिश्राणां शिष्य: A तत्त्व-
चिन्तामणेर्व्याख्यानरूपं प्रकाशनामानं B कुसुमाञ्जलिप्रकाशस्य वर्धमान-
कृतस्य व्याख्यानरूपं मकरन्दनामानं च ग्रन्थं चकार इति ।
-
( २५ ) अथ - केशवमिश्रश्च न्यायसूत्रानुसारिणं तर्कभाषानामानं ग्रन्थं
विरचितवान् इति ।
-
( २६ ) अथ – वरदराजश्च न्यायसूत्रानुसारिणं तार्किकरक्षानामानं
श्लोक - ( १६१ ) निबद्धं ग्रन्थं विरचितवान् इति ।
( २७ ) अथ – पद्मनाभमिश्रस्तु बलभद्र मिश्रात्मजो विजयश्रीगर्भजो
( विश्वनाथगोवर्धन मिश्रबन्धुः ? ) A तत्त्वचिन्तामणेर्व्याख्यानरूपं चिन्ता-
मणिपरीक्षानामानं B राद्धान्तमुक्ताहारं ( अस्य व्याख्यानं कणादरहस्यम् ?)
C किरणावल्या द्वितीयं व्याख्यानं किरणावलीभास्करनामानं च ग्रन्थं
चकार इति ।
( २८ ) अथ - म० म० जानकीनाथो भट्टाचार्यचूडामणिर्न्यायसिद्धा-
•न्तमञ्जरीनामानं ग्रन्थं चकार इति ।
( २९ ) रामभद्रो जानकीनाथभट्टाचार्यचूडामणेः पुत्रः न्यायसूत्रटीकां
न्यायरहस्यनामानं ग्रन्थं चकार इति ।
( ३० ) अथ – विश्वनाथ न्यायपञ्चाननश्च विद्यानिवासभट्टाचार्यात्मजो
२१ केचित्तु रुचिदत्त-प्रगल्भ- रघुनाथानां द्वित्वेन विभिन्नत्वममन्यन्त ।