2023-10-23 16:14:59 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
पालन
 
सन्ति इति (प० मा० ) । संख्यादयः पञ्च सर्वद्रव्यसाधारणा भवन्ति ।

परत्वापरत्वे तु मूर्तद्रव्य एव वर्तेते। भावना धर्माधर्मौ दुःखद्वेषौ एते

जीवात्मन्येव वर्तन्ते । रूपरसस्पर्शैकत्वपरिमाणैक पृथक्त्वगुरुत्वसांसिद्धिक-

द्रवत्वस्नेहा नित्यगताः नित्याः अनित्यगतास्त्वनित्या भवन्ति । एतदन्ये

गुणा नित्यानित्यगताः अनित्या एव भवन्ति ( प्र० प्र० )। अत्रेदं

बोध्यम् । रूपरसगन्धस्पर्शाः नित्येपि पृथिवीपरमाणौ वर्तमानाः सर्वे

अनित्य एव पाकत्वात् इति ज्ञेयम् । जीवात्मसमवेता बुद्धिसुख

दुःखेच्छाद्वेषप्रयत्नाः शब्दश्चैते द्विक्षणावस्थायिनस्तृतीयक्षणे नश्यन्ति इति

( त० कौ० ) । अत्रायं विवेकः । संनिकृष्टत्वविप्रकृष्टत्वाभ्यां परत्वा-

परखे उत्पद्येते इत्यतः परवापरत्वे संनिकृष्टत्व विप्रकृष्टत्वाभ्यामतिरिक्ते

गुणावेवेति वैशेषिक मतम् । अत्र सूत्रं प्रमाणम् । एकदिक्कालाभ्यामेक-

कालाभ्यां संनिकृष्टविप्रकृष्टाभ्यां परमपरं च (वै० ७१२ २१ ) इति ।
• नव्यास्तु संनिकृष्टत्वविप्रकृष्टत्वाभ्यां दैशिकपरत्वापरत्व व्यवहारस्य
ज्येष्ठत्व-

नव्यास्तु संनिकृष्टत्वविप्रकृष्टत्वाभ्यां दैशिकपरत्वापरत्व व्यवहारस्य
कनिष्ठत्वाभ्यां कालिकपरत्वापरत्वव्यवहारस्य चोपपत्तेः न तयोर्गुणान्तर-

त्वमिति ( दि० गु० पृ० २०९ ) । पृथक्त्वं चान्योन्याभावान्नाति-

रिच्यते इति चाहुः । एते रूपादयो गुणाः समवायनिराकरणेन द्रव्या-

भिन्ना एवेति सांख्या वेदान्तिनश्च मन्यन्ते । तत्र वैशेषिकनैयायिक

सिद्धान्तसिद्धेषु चतुर्विंशतौ गुणेषु मध्ये रूपरसगन्धस्पर्शाश्चत्वारः

प्रत्येक मुद्भूतानुद्भूतभेदेन द्विविधाः । अनुद्भूतरूपादयो घ्राणरसनाचक्षु-

स्वगादौ तिष्ठन्ति । उद्भूतरूपादयस्तु घटपटादौ योग्यपृथिव्याद्या-

रम्भक परमाणुढ्यणुकत्र्यणुकादौ च तिष्ठन्ति ( त० कौ० ) । केचित्तु

चित्राचित्रभेदेनापि ते द्विविधाः । तत्र नीलपीतादिभिर्मधुरतिक्तादिभिः

सुरभ्यसुरभ्यादिभिः सुकुमारकठिनाद्यैश्चावयवैरारब्धपटादिषु चित्राः अ

न्यत्राचित्राः इति मन्यन्ते ( त० कौ० ) । सिद्धान्तिनस्तु रूपादिषु चतुर्षु

रूपस्यैव चित्राचित्रभेदेन द्वैविध्यमवय विचाक्षुषप्रत्यक्षान्यथानुपपत्त्या

कल्प्यते । न तु रसादीनां द्वैविध्यम् । तेषां चित्रविधत्वानङ्गीकारात्

इति प्राहुः ( त० दी० १) । प्रकारान्तरेण च ते पुनश्चत्वारोपि पाक-
12
 

३४ न्या० को०