2023-10-23 16:13:18 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोरूपम् रसः गन्धः स्पर्शः
 
२६३
 
रूपम् रसः गन्धः स्पर्शः
परत्वम् अपरत्वम् गुरुत्वम् द्रवत्वम्

स्नेहः वेगः स्थितिस्थापकः एते मूर्तगुणा इत्युच्यन्ते । बुद्धिः सुखम्

दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावना शब्दः एते

अमूर्तगुणाः । संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः एते

गुणा: मूर्तामूर्तगुणाः । संयोगः विभागः द्वित्वादिकाः संख्या: द्विपृथ-

क्त्वादयः एते अनेकाश्रिता गुणाः । तद्भिन्नाः शिष्टास्त्वेकैकवृत्तयः ।

बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयतः धर्मः अधर्मः रूपम् रसः

गन्धः स्पर्शः स्नेहः सांसिद्धिकद्रवत्वम् भावना शब्दः एते विशेषगुणाः ।

संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम्

नैमित्तिकद्रवत्वम् गुरुत्वम् वेगः एते सामान्यगुणाः । संख्या परिमाणम्

पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् द्रवत्वम् स्नेहः एते

द्वीन्द्रियग्राह्यगुणाः । रूपम् रसः गन्धः स्पर्शः शब्दः एते बाह्यैकै-

केन्द्रियग्राह्यगुणाः । गुरुत्वम् अदृष्टम् ( धर्माधर्मो ) भावना एते

अतीन्द्रियगुणाः । बुद्ध्याद्यष्टकम् भावना शब्दश्च एते अकारणगुणो-

त्पन्नाः । अपाकजा रूपरसगन्धाः अनुष्णः स्पर्शः अपाकजं द्रवत्वम्

हवेगगुरुत्वैकत्वानि पृथक्त्वम् परिमाणम् स्थितिस्थापकः एते

कारणगुणोत्पन्नाः । संयोगः विभागः वेगः एते कर्मजा गुणाः । रूपम्

रसः गन्धः स्पर्श: एकत्वम् परिमाणम् एकपृथक्त्वम् स्नेहः शब्दः

स्थितिस्थापकच एते असमवायिकारणान्येव भवन्ति । बुद्ध्यादयोष्टौ
भा

वना एते आत्ममात्रवृत्तिविशेषगुणाः निमित्तकारणान्येव । न तु

संयोग विभागौ एते गुणा असमवायिकारणानि निमित्तकारणानि

असमवायिकारणानि भवन्ति । उष्णस्पर्श: गुरुत्वम् वेगः द्रवत्वम्

भवन्ति । बुद्ध्यादयोटो शब्दः भावना संयोगः विभागः एते अव्याप्य

वृत्तिगुणा उच्यन्ते (भा०प० गु० श्लो० ८७-१०० ) । सविक-

रूपकज्ञानम् इच्छा प्रयत्नः सुखम् दुःखम् द्वेषः जीवात्मगतमेकत्वम्

परिमाणम् एते आत्मयोग्यगुणा भवन्ति । रूपादीनामे कैकेन्द्रियग्राह्यत्वम्

संख्यादीनां द्वीन्द्रियग्राह्यत्वम् सुखादीनां मानसत्वम् सत्तागुणत्वयोः