This page has not been fully proofread.

न्यायकोशः ।
 
२६३
 
रूपम् रसः गन्धः स्पर्शः परत्वम् अपरत्वम् गुरुत्वम् द्रवत्वम्
स्नेहः वेगः स्थितिस्थापकः एते मूर्तगुणा इत्युच्यन्ते । बुद्धिः सुखम्
दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावना शब्दः एते
अमूर्तगुणाः । संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः एते
गुणा: मूर्तामूर्तगुणाः । संयोगः विभागः द्वित्वादिकाः संख्या: द्विपृथ-
क्त्वादयः एते अनेकाश्रिता गुणाः । तद्भिन्नाः शिष्टास्त्वेकैकवृत्तयः ।
बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयतः धर्मः अधर्मः रूपम् रसः
गन्धः स्पर्शः स्नेहः सांसिद्धिकद्रवत्वम् भावना शब्दः एते विशेषगुणाः ।
संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम्
नैमित्तिकद्रवत्वम् गुरुत्वम् वेगः एते सामान्यगुणाः । संख्या परिमाणम्
पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् द्रवत्वम् स्नेहः एते
द्वीन्द्रियग्राह्यगुणाः । रूपम् रसः गन्धः स्पर्शः शब्दः एते बाह्यैकै-
केन्द्रियग्राह्यगुणाः । गुरुत्वम् अदृष्टम् ( धर्माधर्मो ) भावना एते
अतीन्द्रियगुणाः । बुद्ध्याद्यष्टकम् भावना शब्दश्च एते अकारणगुणो-
त्पन्नाः । अपाकजा रूपरसगन्धाः अनुष्णः स्पर्शः अपाकजं द्रवत्वम्
• हवेगगुरुत्वैकत्वानि पृथक्त्वम् परिमाणम् स्थितिस्थापकः एते
कारणगुणोत्पन्नाः । संयोगः विभागः वेगः एते कर्मजा गुणाः । रूपम्
रसः गन्धः स्पर्श: एकत्वम् परिमाणम् एकपृथक्त्वम् स्नेहः शब्दः
• स्थितिस्थापकच एते असमवायिकारणान्येव भवन्ति । बुद्ध्यादयोष्टौ
भावना एते आत्ममात्रवृत्तिविशेषगुणाः निमित्तकारणान्येव । न तु
• संयोग विभागौ एते गुणा असमवायिकारणानि निमित्तकारणानि
असमवायिकारणानि भवन्ति । उष्णस्पर्श: गुरुत्वम् वेगः द्रवत्वम्
भवन्ति । बुद्ध्यादयोटो शब्दः भावना संयोगः विभागः एते अव्याप्य
वृत्तिगुणा उच्यन्ते (भा०प० गु० श्लो० ८७-१०० ) । सविक-
रूपकज्ञानम् इच्छा प्रयत्नः सुखम् दुःखम् द्वेषः जीवात्मगतमेकत्वम्
परिमाणम् एते आत्मयोग्यगुणा भवन्ति । रूपादीनामे कैकेन्द्रियग्राह्यत्वम्
संख्यादीनां द्वीन्द्रियग्राह्यत्वम् सुखादीनां मानसत्वम् सत्तागुणत्वयोः