This page has not been fully proofread.

न्यायकोशः ।
 
२६१
 
-
 
गुण: - १ प्रमाया असाधारणकारणम् । यथा प्रमाया गुणजन्यत्वम् उत्पत्तौ
परतस्त्वम् इत्यादौ । प्रत्यक्षे विशेषणवद्विशेष्यसंनिकर्षो गुणः ( भा०प०
गु० श्लो० १३२ - १३५ ) । अनुमितौ च व्यापकवति व्याप्यज्ञानं
यथार्थपरामर्श: गुणः ( त० दी० प्रामा०प० ३७) (चि० १
प्रामा० ) । प्रमाया असाधारणकारणमित्यस्य प्रमात्वाधिकदेशवृत्ति-
धर्मानवच्छिन्नप्रमानिष्ठकार्यतानिरूपितकारणताशालीत्यर्थः । तेन ज्ञान-
मात्रहेतुभूतात्ममनःसंयोगादेः भ्रमजनकपित्तादिदोषाणां च व्युदासः
( नील० प्रामा० पृ० ३४ ३५ ) । २ अप्रधानम् । यथा षष्ठीं
कुर्यात्तदा गुणे तद्गुणसंविज्ञानबहुव्रीहिः इत्यादौ इति । ३ वस्तुधर्मो गुण
इति वैयाकरणादय आहुः । ४ अङ्गम् । यथा गुणवाद इत्यादौ । यथा
वा दना जुहोतीत्यादौ प्रधाने यागादौ आधेयविशेषो दध्यादिः गुण इति
मीमांसकाः । ५ सत्त्वे निविशतेपैति पृथग्जातिषु दृश्यते । आधेयश्चा-
• क्रियाजश्व सोसत्त्वप्रकृतिर्गुणः ॥ इति शाब्दिका आहुः । अस्यार्थस्तु
• सिद्धान्तकौमुदी व्याख्यायां तत्त्वबोधिन्यां स्त्रीप्रत्ययप्रकरणे वो गुण-
वचनात् (पाणिनिसू० ४।१।४४ ) इति सूत्रे उक्तः तत एव द्रष्टव्यः ।
६ अकार: एकार: ओकारश्चैते त्रयो गुणा इत्यपि शाब्दिकाः संगिरन्ते ।
७ सत्त्वम् रजः तमश्चैते द्रव्यात्मकाः त्रयो गुणा इति सांख्याः ।
८ ज्ञानानन्दादयोपि गुणा इति वेदान्तिनः । ९ शमदमतितिक्षादयो
• गुणा इति योगिनः । १० शौर्यादयो गुणा इति व्यवहारज्ञाः । ११
संधिविग्रहादयः षड्गुणा इति नीतिशास्त्रज्ञाः । १२ श्लेषादयो दश
• माधुर्योजः प्रसादा इति त्रयो वा गुणा इत्यालंकारिकाः । १३ अकार्पण्या-
• स्पृहत्वादय इति धर्मज्ञाः । १४ देशकालज्ञतादयश्चतुर्दश गुणा इत
पौराणिकाः । १५ उष्णाद्यष्टविधं वीर्य गुण इति भिषजः । १६ विशेषण-
मिति भर्तृहरिः । १७ उत्कर्षः । १८ इन्द्रियम् इत्यपरे । १९
आवृत्तिरिति तान्त्रिकाः । २० रज्जुः । २१ सूपकारः । २२ त्याग
इतिज्ञाः । २३ दोष गुण इत्यन्ये आहुः (वाच० ) ।
२४ कार्यस्य ज्ञाप्यस्य वा आश्रये य आश्रितः स गुणः । अयं च विभाषा