2023-10-23 16:08:03 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२५९
 
-
 
त्समासः इति । एकदेशान्वयस्य शास्त्रे निषिद्धत्वेप्यत्र नित्यसकाइत्वेन

चैत्रपदार्थस्य गुरुत्वे मैत्रपदार्थस्य च दासत्वे निरूपितत्वसंबन्धेनान्वयः

सर्वैरुपगम्यत इति समासः संपद्यत इति बोध्यम् । यथा वा काक-

तालीयमित्यत्र गमकत्वाद्वृत्तिः संपद्यते इति ( कुवलया० ) ।

 
<
गमकम्>
१ गतिप्रयोजकम् बोधकं वा । यथा यत्प्रौढत्वमुदारता च

वचसां यच्चार्थतो गौरवं तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः

( मालतीमा० ) इत्यादौ । २ स्वरविशेष इति गायका आहुः । तत्रो-

क्तम् गमकः स्वश्रुतिस्थानस्थानां श्रुत्यन्तराश्रयात् । खरो यो मूर्छनामेति

गमकः स इहोच्यते ॥ कम्पितः स्फुरितो लीनो भिन्नः स्थविर एव च ।

आहतान्दोलितौ चेति गमकाः सप्त कीर्तिताः ॥ इति ( संगी० दा० )

( वाच० ) ।
 

 

 
<
गमनम्>
( कर्म ) [क ] गमनत्वजातिमत् ( वै० उ० १११७)

( त० कौ० ) । [ ख ] उत्क्षेपणादिचतुष्टयभिन्नत्वे सति कर्मत्ववत् ।

अत्रेदं बोध्यम् । उत्क्षेपणादिसर्वकर्मसु यदि गमनव्यवहारस्तदा गमस्य

पृथगभिधानं भ्रमणरेचनस्पन्दनोर्ध्वज्वलनोन्नमनादीनां भिन्नभिन्नबुद्धि-

व्यपदेशभाजामेकेन शब्देन संग्रहार्थम् । यद्वा गमनत्वमपि कर्मत्वव्याप्या

पञ्चमी जातिरेव । तेन भ्रमणरेचनादिष्वेव गमनप्रयोगो मुख्यः ।

उत्क्षेपणापक्षेपणादिषु यदि गमनप्रयोगस्तदा भाक्तः । स्वाश्रयसंयोग-

विभागासमवायिकारणत्वमेव गौणमुख्यसाधारणो धर्मः । गमनत्वजस्

अनियत दिग्देश संयोग विभागासमवायिकारणत्वमेव

भ्रमणादिषु सर्वत्रेति गमनग्रहणेनैव तेषां ग्रहणमिति (बै० उ० १॥
 

११७ ) । तच्च कर्म स्वाश्रयसंयोग विभागासमवायिकारणक्रियाविशेषः

( वाच० ) । अथवा उत्तरदेशसंयोगजनकक्रिया ( ल० व० ) । यथा

ग्रामं गच्छतीत्यादौ संयोगावच्छिन्नस्पन्दो गच्छत्यर्थः (ग० व्यु० २ ) ।

विजिगीषोजिंगमिषोर्वा प्रयाणं गमनमिति काव्यज्ञा वदन्ति ।
 
1000042
 

 
<
गर्तः - >
रूपादिमद्भिः सावयवारब्धकार्यैर्मध्यशून्यैः संस्थानविशेषोपहितमा-

काशम् (न्या० वा० ११ १/१४ पृ० ८१ ) ।