This page has not been fully proofread.

न्यायकोशः ।
 
२५९
 
-
 
त्समासः इति । एकदेशान्वयस्य शास्त्रे निषिद्धत्वेप्यत्र नित्यसकाइत्वेन
चैत्रपदार्थस्य गुरुत्वे मैत्रपदार्थस्य च दासत्वे निरूपितत्वसंबन्धेनान्वयः
सर्वैरुपगम्यत इति समासः संपद्यत इति बोध्यम् । यथा वा काक-
तालीयमित्यत्र गमकत्वाद्वृत्तिः संपद्यते इति ( कुवलया० ) ।
गमकम् – १ गतिप्रयोजकम् बोधकं वा । यथा यत्प्रौढत्वमुदारता च
वचसां यच्चार्थतो गौरवं तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः
( मालतीमा० ) इत्यादौ । २ स्वरविशेष इति गायका आहुः । तत्रो-
क्तम् गमकः स्वश्रुतिस्थानस्थानां श्रुत्यन्तराश्रयात् । खरो यो मूर्छनामेति
गमकः स इहोच्यते ॥ कम्पितः स्फुरितो लीनो भिन्नः स्थविर एव च ।
आहतान्दोलितौ चेति गमकाः सप्त कीर्तिताः ॥ इति ( संगी० दा० )
( वाच० ) ।
 

 
गमनम् – ( कर्म ) [क ] गमनत्वजातिमत् ( वै० उ० १११७)
( त० कौ० ) । [ ख ] उत्क्षेपणादिचतुष्टयभिन्नत्वे सति कर्मत्ववत् ।
अत्रेदं बोध्यम् । उत्क्षेपणादिसर्वकर्मसु यदि गमनव्यवहारस्तदा गमस्य
पृथगभिधानं भ्रमणरेचनस्पन्दनोर्ध्वज्वलनोन्नमनादीनां भिन्नभिन्नबुद्धि-
व्यपदेशभाजामेकेन शब्देन संग्रहार्थम् । यद्वा गमनत्वमपि कर्मत्वव्याप्या
पञ्चमी जातिरेव । तेन भ्रमणरेचनादिष्वेव गमनप्रयोगो मुख्यः ।
उत्क्षेपणापक्षेपणादिषु यदि गमनप्रयोगस्तदा भाक्तः । स्वाश्रयसंयोग-
विभागासमवायिकारणत्वमेव गौणमुख्यसाधारणो धर्मः । गमनत्वजस्
अनियत दिग्देश संयोग विभागासमवायिकारणत्वमेव
भ्रमणादिषु सर्वत्रेति गमनग्रहणेनैव तेषां ग्रहणमिति (बै० उ० १॥
 
११७ ) । तच्च कर्म स्वाश्रयसंयोग विभागासमवायिकारणक्रियाविशेषः
( वाच० ) । अथवा उत्तरदेशसंयोगजनकक्रिया ( ल० व० ) । यथा
ग्रामं गच्छतीत्यादौ संयोगावच्छिन्नस्पन्दो गच्छत्यर्थः (ग० व्यु० २ ) ।
• विजिगीषोजिंगमिषोर्वा प्रयाणं गमनमिति काव्यज्ञा वदन्ति ।
 
1000042
 
गर्तः - रूपादिमद्भिः सावयवारब्धकार्यैर्मध्यशून्यैः संस्थानविशेषोपहितमा-
काशम् (न्या० वा० ११ १/१४ पृ० ८१ ) ।